पृष्ठम्:शब्दापशब्दविवेकः.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

समासाश्रयविधिः ३०१


३६. निस्त्रिंशानि वर्षाणि चैत्रस्य, मैत्रस्य तूपविंशानि । ३७. कति वा युष्माकं पञ्चविंशवर्षाधिकवयस्का: ? ३८. महादर्पोऽवरङ्गजीवो महामहतीं चमूमादाय दक्षिणापथे गोल- कुण्डाख्यं राज्यमवास्कन्दत् । ९६. कुशलवौ मुनेराज्ञया श्रीरामायणं स्थानस्थानतो लयतालसह- कारेणागासिष्टाम् । ४०. पितृपादानुध्यातः पुत्त्रो यथेष्टान् कामानवाप्नोति यथेष्टां च सिद्धिं लभते । ४१. उदशून्यत्वादूषरा इमा भूमयः प्रायेण । ४२. एवं सर्वोऽपि दम्पतीवर्गः संस्कृतप्रियः संस्कृतज्ञश्चेत्स्यात् सर्वं साधू स्यात् । ३६. निर्गतानि त्रिंशत इति निस्त्रिंशानि । संख्यायास्तत्पुरुषस्येति वक्तव्याद् डचि समासान्ते टिलोपे च निस्त्रिशानीति साधु संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये इत्यनेन समासे बहु- व्रीहौ संख्येये डजबहुगणादिति डचि ति विंशतेर्डिति इति तिशब्द- स्य लोपे उपविंशानीति साधु । विंशतः समीपे यानि वर्तन्ते तानि उपविंशानि । ३७. अधिकपञ्चविंश वर्षवयस्का इत्येवं न्यासो निर्दोषः स्यात् । त्रिपदो बहुव्रीहिः । अधिकानि पञ्चविंशतेः (वर्षभ्य:) यानि वर्तन्ते तान्यधिकपञ्चविंशानि । ३८. महामहतीमित्यस्य स्थाने महत्या महतीमित्येव निर्दुष्टं वचः । सामनाधिकरण्यविरहाद् आन्महत इति विधेरप्रसङ्गः । ३६. स्थाने स्थाने इति वक्तव्यम् । वीप्सायां च समासविधायकं नेति व्यासेनैव स्थेयम् । प्रकारे गुणवचनस्येति गुणवचनस्य प्रकारार्थे द्विरुक्तिः । तेन कर्मधारयवदुत्तरेष्विति विधेरप्यप्रसङ्गः । ४०. यथेष्टानित्यपशब्द: यथेष्टामिति च । यथाऽसादृश्य इत्यनेना- व्ययीभावे यथेष्टमित्येव साधु । ४१. उदकस्योदभावोऽत्र दुर्लभ इत्युदकशून्यत्वादिति वक्तव्यम् । ४२. जाया च पतिश्चेति दम्पती । जायाश्च पतयश्चेति दम्पतयः । तेषां दम्पतीनां वर्ग इति दम्पतिवर्गः । अत्र पतिशब्द उत्तरपदे अन्तर्वर्तिन्या विभक्तेर्लुकि पूर्वसवर्णदीर्घाप्रसङ्ग इति न परोक्षं प्रेक्षावताम् ।