पृष्ठम्:शब्दापशब्दविवेकः.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

समासाश्रयविधिः २९९


१९. वेधा द्वेधा भ्रमिं चक्रे कान्तासु कनकेषु च । तासु तेष्वप्यनासक्तः साक्षाद्भर्गो नराकृतिः ।। २०. पञ्चापविभाजने मुहम्मदानुगा हैन्दवीषु स्त्रीष्वप्यसच्चेष्टन्तेति महल्लज्जास्पदम् । २१. अमूदृक्षा१ विरला एव जगति जायन्ते परदोषेषु वाचंयमाः । २२. सायाह्नि बहिर्नगराभ्रमणं शरीराय हितं भवति । २३. श्वश्रूश्वशुरौ पुत्रेण पुत्त्रवध्वा च कलहायेते । २४. शिलामूर्तिरियं रामकान्ताप्रतीका२ । सैवेयं तत्प्रतिकृतिर्वेति सन्दिहते लोकाः । २५. अद्य शुक्लाष्टमीति महद्भूतश्चन्द्रमाः । २९. ग्रीवाकुक्षिललाटे च नित्यं स्वेदः प्रशस्यते । १९. नपुंसकमनपुंसककेनैकवच्चास्यान्यतरस्याम् इत्येकशेषस्य दुर्वार- त्वात्तेष्विति वक्तव्यम् । ताश्च तानि चेति तानि, तेषु । २०. महल्लज्जास्पदम् इत्यत्र लज्जा महत्त्वेन विशिष्यते, नास्पदम् । तेन समास एवायम् । समासे च आन्महत इति विधिर्दुर्वारः । तेन महालज्जास्पदमित्येव साधु । २१. दृक्षे चेति वार्तिकेनादस आत्वे सवर्णदीर्घे चामूदृक्षा इत्यवदातम् । २२. संख्याविसायपूर्वस्याह्नस्याहनन्यतरस्यां ङाविति सायाह्नि सायाहनि सायाह्ने इति त्रैरूप्यं भवति । विभाषा ङिश्योरित्य- ल्लोपविकल्पात् प्रथमं रूपद्वयम् । अह्नोऽह्न एतेभ्यः (५।४।८८) इत्यनेन तृतीयम् । २३. श्वशुरः श्वश्र्वा 'इत्येकशेष श्वशुरावित्येव वक्तव्यम् । २४. रामकान्तेत्यादिस्तत्पुरुषः । प्रतिबिम्बवचनः प्रतीकशब्दो नपुंस- कम् । तस्माद्रामकान्ताप्रतीकमित्येव निर्दोषं स्यात् । २५. महदर्थस्य गौणत्वाद् प्रान्महत इत्यात्वं न । तेन महद्भूत इति साधु । २६. ग्रीवेत्यादि चरकवचनम् । प्राण्यङ्गत्वादेकवद्भावे प्राप्ते नासिकास्तनयोर्ध्माधेटोरिति निर्देशादनित्यताज्ञापनाद् यथा- स्थितं साधु । १. तादृशाः । २.प्रतीकं प्रतिकृति.।