पृष्ठम्:शब्दापशब्दविवेकः.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

समाश्रयविधिः २९७ ५. अष्टत्रिंशतं मुद्रा राजतीरपेक्षे नातोऽधिका इति तातपादा आवे- दिताः । ६. अष्टगवेन शकटेन याति गोपो विभवो मे प्रथतामिति । ७. गायकानामेको हरिश्चन्द्राभिधो मुखं व्यादाय दशनान् प्रदर्श्य चक्षुषी च विस्फार्य तथोच्चैर्गायति यथा बाला अट्टहासं हसन्ति वृद्धाश्चान्तर्लीनम् । ८. स्वस्ति तेऽस्तु सवत्साय च सहलाय च । ९. सहपुत्त्राऽपि भारं वहति गर्दभी वराकी । १०. इदं कामधुरं जलम, इदं च कालवणम् । यतरत्ते रोचते तदा- दत्स्व । ११. महद्बलेनापि न शक्यं कार्यमेतन्निष्पादयितुम् ।

५. द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योरिति आत्वेऽष्टात्रिंशतमित्येव साधु । ६. गवि च युक्त इति वक्तव्यादष्टन आत्वेऽष्टागवेनेति वक्तव्यम् । ७. प्रस्कण्वहरिश्चन्द्रावृषी (६।१।१५३) इत्यूषावभिधेये सुडागमो निपातितः । तेनानृषौ हरिचन्द्र इत्येव । भट्टारहरिचन्द्रस्य गद्य- बन्धो नृपायत इति हर्षचरिते । ८. प्रकृत्याशिषीत्यत्र अगोवत्सहलेष्वित्युक्तम् । तेन सवत्साय सह- लायेत्यत्र प्रकृतिभावो नावश्यकः । वोपसर्जनस्येति पाक्षिकः सहस्य सादेशः । ९. सहपुत्त्रापि विद्यमानपुत्रापीत्यर्थः। भारवहने पुत्त्राणां गर्दभ्या सह तुल्ययोगो न । तेन तेन सहेति तुल्ययोगे' इत्यनेन समासो न । अपि अनेकमन्यपदार्थे इत्यनेन । वोपसर्जनस्येत्यतुल्ययोगेपि विकल्पेन सहस्य सः । सहपुत्रा सपुत्रेति रूपद्वयम् । १० ईषदर्थे (६।३।१०५) इति कोः कादेशः । तेन कामधुरं कालवणमि- त्युभयं साधु । ११. आन्महतः समानाधिकरणजातीययोरित्यात्वे महाबलेनेति वक्त- व्यम् ।