पूर्वपदह्रस्वादिः २९३
१७. निरीक्ष्य मेने शरदः कृतार्थता ।
१७. शरत्कृतार्था, तस्या भावे तलि कृतार्थाशब्दस्य समस्तस्य गुण-
वचनत्वाभावात्पुंवद्भावो न प्राप्नोतीति शङ्क्यते । सत्यम् ।
मामान्ये नपुंसकमिति कृतार्थमित्यस्मात्तल् बोध्यः ।
इति पुंवद्भावविवेचनम् ।
१
पूर्वपदह्रस्वदीर्घाधिकारः सप्तमः ।
१. अभिरूपः१ सुकुमारः स कुमारः नरींमन्य इत्यहो अस्य विभ्रमेण
जितम् ।
२. न गङ्गदत्तः पुनरेति कूपम् ।
३. इयं हि ब्राह्मणीब्रुवा२ । अस्या ब्राह्मणीत्वे मानं मृग्यम् ।
४. वैदेहिबन्धोर्हृदयं विदद्रे (रघु० १४।३३)
५. मर्माविध इमा उक्तय: किमपि क्षिण्वन्ति हृदयं श्रोतृणाम् ।
६ अस्तीह च्छात्राणामेको विश्वामित्रो येन विष्णुमित्रस्य सतीर्थ्यस्य
पुस्तकं चोरितम् ।
१. खित्यनव्ययस्येति पूर्वपदह्रस्वत्वे नारिंमन्य इत्येव साधु ।
२. ङ्यापोः संज्ञाच्छन्दसोर्बहुलमिति संज्ञाया गङ्गाया ह्रस्वत्वे गङ्ग-
दत्त इति साधु । बहुलग्रहणात्क्वचिद् गङ्गादत्त इत्यपि ।
३. घूरूपकल्पेत्यादिना ङ्यन्तस्यानेकाचो ब्राह्मणीशब्दस्य ह्रस्वत्वे
ब्राह्मणिब्रुवेत्येव शब्दः ।
४. ङ्यापोः संज्ञेति हस्वत्वे वैदेहिबन्धोरिति साधु ।
५. नहिवृतिवृषिव्यधीत्यादिना पूर्वपदस्य दीर्घत्वे मर्माविध इत्येव
साधु । मर्माणि विध्यन्तीति मर्माविधः ।
६. मित्रे चर्षावित्यषावभिधेये विश्वशब्दस्य पूर्वपदस्य दीर्घो भवति ।
अयं तु कश्चिन्माणवकोऽनृषिः, तेन विश्वमित्र इत्येव साधु ।
१. मनोज्ञः । २. आत्मानं ब्राह्मणीं ब्रूते । ब्रुवः पचाद्यच् । गुणाभावो
निपातनात् ।