पृष्ठम्:शब्दापशब्दविवेकः.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९४ शब्दापशब्दविवेके ७. प्रतिकाशशब्दं निभसंकाशादिभिः सदृशवचनैः समानार्थं पठन्ति कोषकाराः। ८. केचिच्छस्त्राशस्त्रि युध्यन्ते, परे मुष्टिमुष्टि, इतरे बाहूबाहु । ९. कियदस्य परीमाणमिति विमाय जानीहि । १०. द्वा:स्थे द्वारि प्रतीहारः प्रतीहार्यप्यनन्तरे । ७. इकः काशे (६।३।१२३) इत्यनेन दीर्घे प्रतीकाश इति साधु । ८. तत्र तेनेदमिति बहुव्रीही इचि कर्मव्यतिहारे अन्येषामपि दृश्यत इति पूर्वपइस्य दीर्धे शस्त्राशस्त्रि, मुष्टीमुष्टि, बाहूबाहवि इति रूपाणि साधूनि । तत्र बाहूबाहवीत्यत्र इच् कर्मव्यतिहारे इति इचि सत्योर्गुण इति गुणे 'बाहूबाहवि इति शुद्धं रूपम् । ९. परीमाणमित्यत्र ल्युडन्ते शब्दे पूर्वपदस्योपसर्गस्य दीर्घो दुर्लभः । १०. उपसर्गे घञ्यमनुष्ये बहुलमित्युपसर्गस्य दीर्घत्वे प्रतीहार इति साधु । क्वचित् प्रतिहार इत्यपि, बहुलग्रहणात् । इति पूर्वपदह्रस्वादिविवेचनम् । समासनपुसकताधिकारोऽष्टमः । १. आसन्नां कामपि महतीं व्यापदमाशङ्क,यानाहूता एवामात्या नृपितसभामगमन्परामर्शाय । २. इक्षुच्छायानिषादिन्यः शालिगोप्यो जगुर्यशः । (रघु० ४।२०) १. सभा राजाऽमनुष्यपूर्वेति समासस्य नपुंसकत्वे नृपतिसभम् इति साधु । २. छाया बाहुल्ये इतिच्छायान्तस्तत्पुरुषो नपुंसकं भवतीति इक्षुच्छा- यनिषादिन्य इत्येव साधु । अत्र सूत्रे पूर्वपदार्थस्य बाहुल्यमभिप्रेयते । एकत्वे तु नपुंसकत्वं न । इक्षोश्छाया इक्षुच्छाया । सा चानर्हा निषदनस्येति इक्षुच्छायानिषादिन्य इत्यनुपपन्नार्थकः प्रयोगः ।