२९२ शब्दापादविवेके
७. न ह्यैश्वरीसृष्टेः समुत्पादकाः परमाणवो भवितुमर्हन्ति ।
८. पश्य प्राचीदिशोऽलङकारभूत उदेति भगवान् विवस्वान् ।
९. शूद्रादयोगवः क्षत्ता चाण्डालश्चाधमो नृणाम् । वैश्य राजन्यविप्रा-
सु जायन्ते वर्णसङ्कराः (मनु०१०।१२) ।
१०. तामसीबुद्धिरसौ पृथग्जनोऽसकृत्प्रेर्यमाणोऽपि न सुकृते प्रवर्त ते ।
११. अस्मिन्कर्मणि तस्याः कतृ त्वं केनापह्नूयते ?
१२. ते हि भगवन्तो नैःस्पृह्यस्य पराकाष्ठां भेजिरे ।
१३. इमे मान्या व्यवस्थापिकासभाया: सभ्या: ।
१४. रसवतीसुरसरस्वतीधाराभिः को नेच्छेदात्मानमभिषेक्तुम् ?
१५. परपुरुषार्थब्रह्मज्ञानहेतुत्वादुपनिषदां पराविद्यात्वम् ।
१६. प्रेक्षावान् खलु पूर्वतरमेव देवीसम्पतसम्पादने प्रवर्तेत ।
७. वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे (६।३।३२) इति पुंवद्-
भावप्रतिषेधस्य पुंवत्कर्मधारयजातीयदेशीयेष्विति प्रतिषेधाद्
ऐश्वरी सृष्टेरिति दुष्टम् । पुंवद्भावे सति ऐश्वरसृष्टेरिति
भाव्यम् । ऐश्वर्याः सृष्टेरित्यसमासोक्तिस्तु भव्या ।
८. प्राचीदिश इत्यत्र पुंवद् कर्मधारयेत्यादिना पुंवत्त्वं दुर्वारम् ।
तेन प्राग्दिश इत्येव साधु ।
९. द्वन्द्वे न क्वचित्वद्भाव: शिष्ट: शास्त्रेणेति वैश्या-राजन्या-
विप्रास्वित्येवं साधूक्तं स्यादिति पाणिनीयाः ।
१०. तामसी बुद्धिरस्येति बहुव्रीहिः । वृद्धिनिमित्तस्य चेति पुंवद्भाव-
प्रतिषेधः ।
११. कीत्वमिति तु युज्यते । कृदन्तस्यागुणवचनत्वादित्युक्तमध-
स्तात् ।
१२. परकाष्ठामित्येव साधु । दुनिवार: पवद्भाव इति परां काष्ठा-
मिति व्यासेन वा वक्तव्यम् ।
१३. पुंवत्कर्मधारयेत्यादिना पुंवद्भावे व्यवस्थापकसभाया इत्येव
साधु ।
१४. रसवत्सुरसरस्वतीत्याद्येव निर्दोषं पुंदद्भावस्य दुर्वारत्वात् ।
१५. परविद्यात्वमित्येव । आवश्यक: पुंवद्भावः ।
१६. दैवसम्पत्सम्पादन इत्येवं न्यसनीयम् । पुंबद् भावस्य दुष्परि-
हरत्वात्।