पृष्ठम्:शब्दापशब्दविवेकः.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पुंवद्भावः २९१ पुवद्भावाधिकारः षष्ठः। १. वाराणसेयीं प्रथमापरीक्षामुत्तीर्णो मे वत्सः, सम्प्रति मध्यमां ति- तीर्षति । २. तृतीयाप्रकृतिरिति नपुंसकपर्यायः । ३. कश्चात्र शब्दो दृढभक्ति ढाभक्तिरिति वा बहुव्रीहौ ? ४. याऽऽत्मानं दर्शनीयां मन्यते सा दर्शनीयमानिनीति वक्तव्या स्यादुत दर्शनीयामानिनीति संप्रमाणं ब्रूहि । ५. नेष्टं पुरो द्वारवतीत्वमासीत् । ६. नाहमन्यमना अस्मि । अनिवर्णनीयं मे परकलत्रम् । १. स्त्रियाः पुंवद्भाषितपुंस्कादिति पुंवद्भावे प्रथमपरीक्षामिति साधु । २. तृतीया प्रकृतिः षण्ढ: क्लीबः षण्डो नपुंसकमित्यमरे पाठः । मूलेऽसमासोक्तिः । समासे तु तृतीयप्रकृतिरित्येवेति भानुजि- दीक्षितः । न कोपधाया इति नेति योगविभागान्न पुंवद्भाव इति केचित् । क्षीरस्वाम्यपि मूलेऽसमासं मन्यते यदाह-स्त्री- पुंसाभ्यां तृतीया प्रकृतिः । लिङ्गान्तरत्वादिति । ३. भक्तिशब्दस्य प्रियादिषु पाठात्पूर्वपदस्य पुंवद्भावो दुर्घटः । तेन दृढाभक्तिरित्येव साधु । अथवा दृढमिति सामान्योपक्रमान्नपुंस- कम् । तस्य भातशब्देन समासे दृढभक्तिरिति साधु । ४. अत्र स्त्रियाः पुंवद् इत्यनेनैव पुंवद्भावे दर्शनीयमानिनीत्येव साधु । ५. आकडारसूत्रभाष्ये संज्ञाकृदन्ततद्धितान्तसमस्तसर्वनामसंख्या- तिरिक्तः शब्दो गुणवचनशब्देनोक्तः । तेन त्वतलोर्गुणवचनस्ये- त्यनेन पुंवद्भावो नेति नात्र कश्चिद्दोषः । द्वारवतीति तद्धि- तान्तम् । तद्धितान्तस्यागुणवचनत्वात् । ६. अन्यस्यां मनोऽस्यत्यन्यमनाः । सर्वनाम्नो वृत्तिमात्रे पुंवभाव इति टाबन्तस्यान्याशब्दस्य पुंवद्भावः ।