पृष्ठम्:शब्दापशब्दविवेकः.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९० शब्दापशब्दविवेके


५. उद्यतासिर्व्यूढकङ्कटो१ऽभीतवद् यात्यरीन्योधः । ६. मुहूर्तेकं तिष्ठ । अस्ति मया किञ्चिदात्ययिकं कार्यम् । ७. भसित२ शरीराः संमुद्रितश्रवणा३ मृदुपलिप्तवदनविवरा: केचित्- तापसलिङ्गिन आत्मानमेवातिसन्दधति४ केवलम् । ८. सर्वे मनुष्याः स्वलाभहानिपरिचिता इति न तत्र शास्त्रेणार्थिनो भवन्ति । ९. स्वकठिनपरिश्रमस्य फलमवाप्नुहि सर्वं चायुरिहि ।

५. प्रहरणार्थेभ्य इत्यस्युद्यत इति स्यात् । आहिताग्न्यादित्वाद्वा निष्ठायाः परनिपात इति पक्षे उद्यतासिरित्यपि साधु । ६. पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेनेति समासे एकशब्दस्योपसर्जनसंज्ञायां पूर्वनिपाते एकमुहूर्तमिति साधु स्यात् । एकं मुहूर्तमिति व्यासेन वोच्यताम् । ७. भसितं भस्मेत्यनर्थान्तरम् । शरीरे भसितं येषां ते शरीरभसिता इति वाच्याः स्युः । सप्तमोविशेषरणे बहुव्रीहाविति सप्तम्यन्तस्य पूर्वनिपातौचित्यात् । भसितोपलक्षितं भसितोपलिप्तं वा शरीरं येषां ते भसितशरीरा इत्येवं मध्यमपदलोपि समासाश्रयणे तु न दोष इति चेन्न । समानाधिकरणे तत्पुरुष एव लोपविधेः । ८. निष्ठेति बहुव्रीहौ निष्ठाया: पूर्वनिपातविधानात् परिचितस्व- लाभहानय इत्येवं न्यास: कार्यः । ९. 'कालाः परिमाणिना' इत्येकं वर्जयित्वा दुर्लभस्त्रिपदतत्पुरुष इति कठिनस्य स्वपरिश्रमस्य, कठिनस्य स्वस्य परिश्रमस्येति वा वक्तव्यम् । स्वशब्देन समासे सति पश्चात्कठिनेन समासान्तरे कठिनस्वपरिश्रम इति स्यादेव । इति पूर्वनिपातादिविवेचनम् । १. दंशितः, वर्मितः । २. भसितं भस्म ३. श्रवणः कर्णः ४. प्रतारयन्ति ।