पृष्ठम्:शब्दापशब्दविवेकः.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दुर्घटासमर्थसमासः २८९


५९. सुवर्णरेखातनुमुष्टिमध्या (मोह० ३।२४) । ५९. सुवर्णरेखा तनुमुष्टिमध्या (काचित्) । अत्र दुरुन्नय: कवेरभि- प्रायः । कविरयं लुप्तविभक्तिकानां पदानामानन्तर्येरणोच्चारण- मन्ते च पदत्वलाभाय सुप्करणं समसनं मन्यते । सामर्थ्यं च न समाद्रियते । समर्थः पदविधिरिति शास्त्रं चावधीरयते । सुवर्ण- रेखाभिर्युक्तस्तनुर्मुष्टिमेयो मध्यो यस्या: सेत्यर्थविवक्षया पदानि यथा तथा संयुनक्ति न तु यथाविधि समस्यति । इति दुर्धटासमर्थसमासविवेचनम् । पूर्वनिपातपरनिपाताधिकारः पञ्चमः । १. यो हि कृमिपक्षिमृगादीनि भूतानि समं पश्यति स धीरः । २ ते नामासमर्था ये हिंसां बलोत्तमं विदुः । ३. शूद्रविट्क्षत्रविप्राणां यत्रर्तोक्तौ भवेद्वधः । तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते (मनु० ८।१०४) । ४. शूलपरशुशरचापभृता निर्यान्तु मे योधाः शत्रुनिबर्हणाय । १. 'द्वन्द्वे घि' इति अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे इति शास्त्राभ्यां कृमिपक्षिमृगादीनि कृमिमृगपक्ष्यादीनि इति चोभयं साधु । यदि मृगाणां पक्ष्याद्यपेक्षयाऽभ्यहितत्वमभिप्रेयते तदा मृगशब्देन पूर्वं निपतितव्यम् । २. उत्तमबलमित्येव न्यासः साधुः । सन्महत्परमोत्तमोत्कृष्टाः पूज्य- मानैरिति समासः । उत्तमशब्द उपसर्जनमिति तस्य पूर्वनिपात उचितः । ३. वर्णानामानुपूर्वेणेति वचनाद्विप्रक्षत्रविट्शूद्राणामित्येवं न्यासो युक्तः । शूद्रादिक्रमेणाभिधानं वधस्यामङ्गलत्वादिति कुल्लूक- भट्टः । ४. अल्पाच्तरमिति शूलशब्दस्य पूर्वनिपात: परशोश्च परनिपातः । शेषेऽनियमः । प्रहरणार्थेभ्यः परे निष्ठासप्तम्याविति भृतशब्दस्य निष्ठान्तस्य परनिपातः । शूलादिधारिण इत्यर्थः ।।