२८८ शन्दापशब्दविवेके
५४. भारतस्य प्रतिकोणं संस्कृतपाठशालाः प्रवर्त्यन्ताम् । अत्रैव लम्ब-
ते हितं प्रजानाम् ।
५५. द्व्यधिकेऽत्राशीतितमे ह्यध्याये वर्ण्यते तमः ।
५६. कीर्तनपरं गरुडध्वजस्य (मोह० ६।२५) ।
५७. के चिन्नूनं समधिकसनासीरकीर्तिप्रभावाः । (मोह०२१)
५८. निकाय्यान्तभूमौ समधिकसुधर्माधिकधना । (मोह० २।२२)
मुकुन्दपदमकरन्दमिति तु निरवद्यम् । मौकुन्दपदमकरन्दमि-
त्यपि न श्रेयः । समासवृत्त्यैव विवक्षितार्थस्य समर्पणात् तद्धित-
वृत्त्या नार्थः । एकत्र वृत्तिद्वयाङ्गीकारे गौरवात् ।
५४ प्रतिकोणम् । कोणं कोणं प्रति प्रतिकोणमित्यव्ययीभावः ।
भारतस्येति षष्ठ्यन्तं विशेषणम् । तत्र समासगतेन कोणशब्देन
विशेष्येण योगं चिकीर्षति । सत्यस्निन्विशेषणे समासो न, सति
च समासे विशेषणयोगो नेति कोणो कोण इति वक्तव्यम् ।
५५. द्व्यधिकेऽशोतितमे इत्यनुपपन्नम् । द्वयधिकस्याशीत्यान्वयायो-
गात् । द्वयशीतितमे इति तु वक्तव्यम् ।
५६. कीर्तनपरमित्यसमर्थसमासः । साकाङ्क्षमसमर्थं भवति । कीर्तनं
परं प्रधानमस्य तम् । कस्य कीर्तनम् । गरुडध्वजस्य । तेन कीर्त-
नार्थस्य गरुडध्वजार्थेन सामर्थ्यम् । कीर्तनं हि गरुडध्वजमाकाङ्-
क्षति इति नार्हति परशब्देन समासम् ।
५७. समधिकादिरपि दुर्घट: समासः । कीर्तिश्च प्रभावश्चेति कीर्ति-
प्रभावौ । द्वन्द्वः । सुनासीरस्य कीर्तिप्रभावौ इति सुनीसीरकीर्ति-
प्रभावौ । द्वन्द्वगर्भः षष्ठीसमासः। तौ समधिकौ येषां ते सम-
धिकसुनासीरकीर्तिप्रभावाः । परं नायं कवेरभिमतः । कविस्तु
सुनासीरात् समधिककीर्तिप्रभावा इति विवक्षति । न चेममर्थं
समासो वक्ति । तेनात्रार्थे दुर्घटोऽयं समासः । अतिक्रान्तसुना-
सीरकीर्तिप्रभावाः, अतिशयितसुनासीरकीर्तिप्रभावा इति वा,
विशेषितसुनासीरकीर्तिप्रभावा इति वा बहुव्रीहिरास्थेयः । अति-
सुनासीरकीर्तिप्रभावा इति वा प्रादिः श्रेयः ।
५८. समधिकसुधर्माधिकधनाः । सर्वथाऽनर्थकं पदकदम्बकम् । सुधर्मा-
धिकधना इत्येव पर्याप्तमर्थवत् ।