पृष्ठम्:शब्दापशब्दविवेकः.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दुर्घटासमर्थसमासः २८७


४७. अत्र देशे निरान्तरयां वृद्धयां सत्यां विंशतिवर्षादूर्ध्वं सर्वं साधू भविष्यति । ४८. स नक्तं दिनं (दिवानिशं) परिश्राम्यति न च सिध्यति । बाढं मन्दो १भविष्यति । ४९. क्व वा वेदानां शास्त्राणां वां तुलाधिरूढ पुस्तकम् ? ५०. अद्यतनभूतादिकतिचिल्लकारैर्ज्ञातैर्न खलु वाङ्मयं ज्ञातं भवति । ५१. गते समरे परस्सहस्राः प्रवीरा: सर्वदार्थं वीरशय्यामध्यरत । ५२. कतिपयेऽस्य चान्येषां कवीनां च श्लोकाः सनामग्राहमिहोदाह्रि- यन्ते । ५३. पिब मौकुन्द पदमकरन्दम् । स्त्रियाः पुंवद् इति योगविभागात्परशब्दे पुंवत्त्वम् । उपसर्जनं पूर्वमिति पञ्चम्यन्तस्य शतशब्दस्य पूर्वनिपात: प्राप्तः । राज- दन्तादित्वान्न भवति । ४७. विंशतेर्वर्षेभ्य इत्येवं व्यासेन वक्तव्यम् । उक्तोऽत्र हेतुः । ४८. नक्तमित्यधिकरणवृत्तिं । तेन नक्तंदिनमिति द्वन्द्वो नोपपद्यते । एवमेव दिवानिशमिति समासोप्यनुपपन्नः । नक्तन्दिवमिति तु साधु । प्रचतुरविचतुरेत्यादिना निपातनात् । अहोरात्रमिति वा वक्तव्यम् । ४९. तुलाधिरूढमित्यसमर्थसमास: । तुलामधिरूढमित्येव शोभनम् । ५०. अनद्यतनभूतादिकतिचिल्लकारैरिति दुश्लिष्टं पदकम्बकम् । चिच्छब्दस्तावन्न क्वचिदपि समासमनुप्रविशन्दृष्टः । अनद्यतनभू- ताद्यर्थे कतिभिश्चिल्लकारैरिति वक्तव्यम् । सर्वत्र चिच्चनौ पृथक् पदे भवतः । ५१ सर्वदार्थमित्यपशब्दः। सर्वदेति तद्धितश्चासर्वविभक्तिरित्यव्य- यम् अधिकरणवृत्ति । सर्वस्मिन्काल इति च तदर्थः । तस्यार्थं शब्देन समासोनुपपन्नः । सर्वकालमिति वक्तव्यम् । ५२. नामग्राहमिति नाम्न्यादिशिग्रहोरिति णमुलि रूपम् । उपपद समासः । तत्र सहशब्देन समासान्तरमनर्थकम् । ५३. पदमकरन्दम् इत्यसमर्थसमासः । मुकुन्दस्येमे पदे मौकुन्दे । पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुष्वित्यमरः ।