२८६ शम्दापशब्दविवेके
४१. चतुः पञ्चशतं वा रोगिणस्तत्रानुदिनं प्राप्नुवन्ति, इष्टं चोपचा-
रं विन्दन्ति ।
४२. सत्यं परिच्छेत्तुमसाध्ययशसो रामादयो भुवः परिवृढाः ।
४३. ततः सहसा बिल्वबृहत्फलेन पतता भग्नमस्य खल्वाटस्य शिरः ।
४४. मर्कटस्य सुरापानं तस्य वृश्चिकदंशनम् ।
४५. पतन्त्येनेके जलधेरिवोर्मयः (किराते) ।
४६. आलोकयामास हरिमहीधरानधिश्रयन्तीर्गजताः१ परश्शताः
(शिशु०१२।५०)
४१. चत्वारि शतानि पञ्च शतानि वेति वक्तव्यम् । संख्या समानाधि-
करणेन न समस्यत इत्यसकृदुक्तमधस्तात् । चतुष्पञ्चानि शता-
नीत्येवमपि दुर्लभं वक्तुम् । संख्येये वर्तमाना संख्या संख्यया
समस्यते बहुव्रीहिश्च समासो भवति । प्रस्तुते तु चत्वारि वा
पञ्च वेति संख्या संख्येये न वर्तते नाम ।
४२. परिच्छेत्तुमसाध्ययशस इत्यपार्थकः शब्दसन्दोहः । असङ्गतेः ।
असाध्ययशस इत्यसमर्थ समासः । अपरिच्छेद्ययशस इत्येव निर्दु-
ष्टोन्यासः ।
४३. बृहद्बिम्वफलेनेति व्यवहारानुगो न्यास: । पूर्वं सम्बन्धाख्यायकः
षष्ठी समासः, पश्चाद् विशेषणसमास इत्येव क्रम इत्यसकृदुक्तम् ।
४४. कर्मणि चेत्युभयप्राप्तौ या कर्मणि षष्ठी सा न समस्यत इति
सुराया: पानमित्येव साधु । केचिदविशेषेण विभाषामिच्छन्तीति
वचनानान्मर्कटस्येति षष्ठी साध्वी । तस्य वृश्चिकेन दंशनमित्य-
समास एव वरम् ।
४५. उत्तरपदार्थप्रधानो हि नञ् समासः । एकत्व बुद्ध्या भ्रम इत्यतो-
ऽयमेकशब्द एकस्मिन्नित्येकवचनमेव युज्यते । ज्ञापकं च--अनेक-
मन्यपदार्थे इति । तथा च माघ:-करेणुः प्रस्थितोऽनेको रेणुर्घण्टाः
सहस्रश (शिशु० १९।३६) इति । रक्षितस्त्वाह-अध्यारोपितबहु-
त्वाद् बहुवचनम् । यथा द्युद्भ्यो लुङि वृद्भ्यः स्यसनोरिति । अने-
कश्चानेकश्चानेकश्चेत्यनेके इत्येक शेषाद्वेति शब्दकौस्तुभे स्थितम् ।
४६. शतात्परा इति परश्शताः । पञ्चमीति योगविभागात् समासः ।
पारस्करादित्वात्सुट् । लोकाश्रयत्वाल्लिङ्गस्येति न परवल्लिङ्गता१. गजानां समूहः गजता । समूहे तल् ।