दुर्घटासमर्थसमासः २८५
३५. चतुश्चत्वारिंशत्सहस्राधिका लक्षलोकास्तत्र महात्मनो दिदृक्षया
समवेताः ।
३६. तृणानि शय्या परिधानवल्कलं वरं, बन्धुमध्ये धनहीनजीवनं
तु न वरम् ।
३७. आमरणान्ताः प्रणया: कोपास्तत्क्षणभवराः । परित्यागाश्च
निःसहा भवन्ति हि महात्मनाम् ॥
३८. अहर्निशं वर्षति वारिधारा तथापि पत्त्रत्रितय: पलाशः ।
३९. राजहंसास्तु ते चञ्चुचरणलोहितैः सिता: (अमरे २।५।२५) ।
४०. पुरा किलाऽऽबालवृद्धाश्चन्दनचर्चितभालाः संस्कृतमधिजगिरे
३५. चतुश्चत्वारिंशत्सहस्राणि च लक्षं च लोका इत्येवं व्यासेन वक्त-
व्यम् ।
३६. वल्कलं परिधानमिति व्यस्तरूपकेण वाच्यम् । यथा तृणानि
शय्यात्वेन रूप्यन्ते तथा वल्कलं परिधानत्वेनेति वल्कलं विशेष्यं
प्रधानमिति तस्य तृणानीतिवत्पूर्वप्रयोग उचितः ।
३७. आमरणान्तमित्येवाव्ययीभावे साधु । समासान्तरं चेह न शक्यं
समाश्रयितुम् । आमरणान्तं मरणावधिभाव एषामस्तीत्याम-
रणान्ता इति मत्वर्थीयेऽर्श आदित्वादचि कथंचित् समाधेयम् ।
३८. पत्त्रत्रितयं पलाशे इत्येवं वक्तव्यम् । पत्त्राणां त्रितयमिति पत्त्र-
त्रितयमिति षष्ठीसमासः । न चायं बहुव्रीहिः, पत्त्राणां त्रितयं
यत्रास्ति स इति, व्यधिकरणत्वात् । अनेकमन्यपदार्थे इत्यनेक-
मिति प्रथमान्तम् । तेन प्रथमान्तानामेव बहुव्रीहिः । क्वचिदेवा-
गत्या व्यधिकरणबहुव्रीहेः समाश्रयः ।
३९. प्राण्यङ्गत्वाच्चञ्चुचरणैरिति द्वन्द्वनिर्देशो न युक्तः । चञ्चुचर-
णेनेत्येकवद्भावेन वक्तव्यम् । अवश्यं समाधेयमिति चेत् चञ्चु-
सहिताश्चरणा चञ्चुचरणा इति मध्यमपदलोपी समास
आश्रेयः ।
४०. आबालवृद्धं लोका इत्येवं वक्तव्यम् । बालाश्च वृद्धाश्चेति बाल-
वृद्धाः तानभिव्याप्य यथा स्यात्तथेत्यर्थः । आङ् मर्यादाभिविध्यो-
रित्यव्ययीभावः। अव्ययीभावश्चेति नपुंसकत्वम् ।