२८४ शब्दापशब्दविवेके
३०. अर्जुनः किल पातालदेशस्य नृपकन्यामुलूपीं परिणिनाय ।
३१. इन्द्रश्चाध्येता बृहस्पतिश्च प्रवक्ता, दिव्यसहस्रवर्षारिण चाध्ययन-
काल: न चान्तं जगाम ।
३२. पञ्च शतानि च्छात्रा अस्यां पाठशालायायाम् । अत्रार्थे पञ्चश-
तमिति समासोक्तिः सावद्योत निरवद्येत्यत्र निर्णयं ब्रूहि ।
३३. शतवर्षेभ्यः किञ्चिन्यूनवर्षाणि पञ्चनदं नाम जनपदमाङ्गला
अशासुः ।
३४. अयं महान् विद्वानस्ति । अयं च महद्विद्वान् । अत्र वाक्यार्थे को
विशेषः ।
उताहो इतरैः साकमिति, तेन तद्व्यक्तये उभयस्मात्पदात् षष्ठी
प्रयोक्तव्या, आर्याणां दस्यूनां च संग्रामे संजाते इत्येवं वक्तव्यम् ।
आर्याणां दस्युभिः सहेति वा ।
३०. नृपकन्यामित्यसमर्थसमासः । नृपस्य कन्यामिति वाक्यमेव
प्रयोज्यम् ।
३१. दिक्संख्ये संज्ञायामिति नियमात् असंज्ञायां संख्या समानाधिकर-
णेन सुबन्तेन न समस्यत इति दिव्यानि सहस्रं वर्षाणीत्येवं
न्यसनीयं दिव्यं वर्षसहस्रमिति षष्ठीसमासेन वा ।
३२. अनन्तरोक्तेनैव नियमेन पञ्चशतमिति सावद्यम् । पञ्चाधिकं
शतमित्यर्थे मध्यमपदलोपिसमासे तु न किमप्यवद्यम् ।
३३. शताद्वर्षेभ्य इत्येवं निर्दुष्टं स्यात् । निर्दुष्टत्वे उक्तो हेतुः । कि-
ञ्चिन्यूनानि इति च वक्तव्यं तस्यार्थस्य प्राधान्यख्यापनाय ।
३४. न हि विशेषणानां परस्परं विशेषणविशेष्यभावोऽस्ति । नह्युपा-
घेरुपाधिरस्ति विशेषरणस्य वा विशेषणमिति भाष्योक्तेः । गुणानां
पारार्थ्याद् इति वैशेषिकसूत्राच्च । तस्मादयं महान् विद्वानिति
विशेषणद्वयमेकमेवार्थमिदंलक्षणं विशिनष्टि । अयं विद्वानस्ति
महांश्च कुलेन वा धनेन वा विद्याधिगमेन वेत्यर्थः । महदस्य
वैदुष्यमित्यर्थो न । नहि महत्त्वेन विद्वत्त्वं विशिष्यते । महाविद्वा-
निति समासार्थस्तु महद् विद्वत्त्वमस्येति सम्भवति । तत्र विद्वानिति
भावप्रधानो निर्देशः । एकतरस्य विशेषरणस्य विशेष्यत्वकल्पनयाऽयं
विशेषणयोः समानाधिकरणस्तत्पुरुषो वा द्रष्टव्यः । अपि वा
महद्यथा स्यात् तथा विद्वान् इति विग्रहे महच्छब्दः क्रियाविशेष-
णम् । सुप्सुपासमासः।