पृष्ठम्:शब्दापशब्दविवेकः.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दुर्घटासमर्थसमासः २८३


२४. त्रिचतुर्वाङ्गुलायामाः समिधः कुर्वीत । २५. सर्वैर्यथाशक्ति परोपकर्तव्यं सफलं नोऽस्तु जीवितमिति । २६. आचतुश्चत्वारिंशद्वर्षाणि मध्यमं ब्रह्मचर्यभ् । २७. साङ्गोपाङ्गस्य प्रतिवेदस्याध्ययनं द्वादश वत्सरान्व्याप्नोति । २८. स्मृत्युक्तोऽयमर्थ उपनिषद्भिरविरुध्यत इति सुतरामादेयो भवति । २९. आर्यदस्यूनां सञ्जातसंग्रामे दस्यवोऽशूरायन्त परं पराजयन्त । २४. त्रिचतुराङ्गुलायामा इति समासेन वक्तव्यम् । त्रीणि वा चत्वारि वेति सङ्ख्येये वर्तमानयोस्त्रिचतुःशब्दयोर्बहुव्रीहौ समासे त्र्युपाभ्यां चतुरोऽजिष्यत इत्यचि समासान्ते त्रिचतुराण्यङ् गुलान्यायाम आसामिति पुनस्त्रिपदे बहुव्रीहौ सिद्धमिष्टम् । प्रमाणेऽङ्गुलं नपुंसकं स्वतन्त्रा प्रकृतिरस्ति । २४. उपकर्तव्यमिति विधेयम् । विधेयेन च समासो नेति परेषामुपक- र्तव्यमिति वाक्यमेव साधु । परेषामिति कर्मणि शेषत्वेन विवक्षि- ते षष्ठी । २६. आचतुश्चत्वारिंशद्वर्षमित्यव्ययीभावेन सुपोऽमादेशे वक्तव्यम् । आ चतुश्चत्वारिंशतो वर्षेभ्य इति व्यासेन वा । २७. वेदं वेदं प्रति प्रतिवेदमिति वीप्सायामव्ययीभावः । सविशेष- णानां वृत्तिर्न, वृत्तस्य वा विशेषणं नेति भाष्योक्तेर् वृत्तस्य वृत्तिमतो वेदशब्दस्य साङ्गोपाङ्गस्येति विशेषणेन योगो न भवितुमर्हति । एकैकस्य वेदस्येति वक्तव्यम् । प्रतिवेदं साङ्गोपाङ्गमध्ययनमित्येवं वा न्यास: कार्यः । तत्र साङ्गोपाङ्ग- मिति क्रियाविशेषणम् । २८. अविरुध्यत इति प्रमादः । भाषायां तिङन्तेन समासाभावात् । सुप्सुपेत्यधिकारात् । न विरुध्यत इत्येवं वक्तव्यम् । २९. संजाते संग्रामे इत्येवं व्यासेन वक्तव्यम् । आर्यदस्यूनामित्यपि हेयम् । विलम्बितेष्टार्थसमर्पणात् । दस्यव आर्या न भवन्तीत्या- गन्तुकार्थप्रतीतेः कर्मधारयायोगाद् द्वन्द्वसमाश्रयात् । द्वन्द्व समाश्र- ये न विविच्य ज्ञायते आर्याणां दस्यूनां चोभयेषां मिथः सङ्ग्राम१. पराजयं प्राप्नुवन् ।