पृष्ठम्:शब्दापशब्दविवेकः.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८२ शब्दापशब्दविवेके


१७. प्रतिप्रश्नस्योत्तरे द्वे संभवतः पक्षविपक्षसमाश्रयेण । १८. रम्यौ हि सूर्योदयास्तौ भवत इति तत्र काले नियतं विहरेत् प्रघी: १९. को भेदः स्वसुराज्ययोः । यदि जानासि नूनं निपुणोऽसि । २०. तत्तद्ग्रन्थानधीतानामबहुश्रुतानामगम्योऽयमर्थः । २१. रजोदर्शनस्य पञ्चमदिवसादारभ्याषोडशीं तिथिमृतुदानकालः । २२. अन्यः कृतोपकारावेदन कृतघ्नता नाम । २३. सन्तानस्य विनयाधानं हि जनकयोः प्रथमं कर्तव्यम् । १७. प्रश्नं प्रश्नं प्रतीति प्रतिप्रश्नमिति वीप्सायामव्ययीभावः । नाव्ययीभावादतोऽम्त्वपञ्चम्या इति सुपोऽमादेशः । तेन प्रति- प्रश्नस्येत्यपशब्दः । १८. अस्तमिति मकारान्तमव्ययं तिरोभावे वर्तते । अस्त इति चाचल- विशेषस्य संज्ञा । तेन सूर्योदयास्तमयाविति वाच्यम् । १९. स्वराज्यसुराज्ययोरित्येवं न्यसनीयम् । साधारणमपि राज्य- मिति पदं दुस्त्यजम् । न च स्वशब्देन सुरराज्यशब्दावयवभूतो राज्यशब्दः शक्यो विशेषयितुम् । पदस्य पदान्तरेणान्वयो न तु तदेकदेशेन । २०. तत्तद्ग्रन्थानधीतानामिति दुष्टो न्यासः । अनधीततत्तद्ग्रन्थाना- मित्येव शोभनः संनिवेशः । यथास्थिते द्वितीयासमासानुपपत्तेः । तत्तद्ग्रन्थाननधीतवतामित्येवमसमासेन वा वक्तव्यम् । २१. प्राङ्मर्यादाभिविध्योरिति विभाषाव्ययीभावः । अव्ययादाप्सुप इति सुब्लुकि आषोडशतिथि इति युक्तः समासः । पक्षे आ षो- डश्यास्तिथेरिति वाक्यम् । षोडशी चासौ तिथिश्चेति कर्म- धारयः । पुंवत्कर्मधारय इति पुंवद्भावः । २२. कृतोपकारावेदनमित्यसमर्थः समासः । तेनान्यकृतोपकारावेदन- मित्येवं वक्तव्यम् । २३. जननी च जनकश्चेति जननीजनकौ, तयोर्जननीजनकयोः। 'पुमान् स्त्रिया' इत्येकशेषविधौ तल्लक्षणश्चेदेव विशेष इति वर्तते । अत्र स्त्रीप्रत्ययमात्रं भिद्यत इति न, कृत्प्रत्ययावपि भिद्यते । एकत्र कर्तरि प्रत्ययः, अपरत्राधिकरणे ।