दुर्घटासमर्थसमासः २८१
११. देहस्यावसानोत्तरस्मिन्समये कां गतिं गच्छति देहीति सर्वस्य जि-
ज्ञासाविषयः ।
१२. हे त्रिलोकनाथ ! दयाकूपारो१ऽसि ।
१३. भोः पदार्थमात्रस्य ज्ञातयाथार्थ्यं विद्वन् ! किं नाम तेऽविदितं
यन्मयाऽऽख्येयम् ।
१४. अद्यत्वे त्रिसहस्राभिर्जातिभिर्विभक्ता हिन्दवः परोप२ जापमन्त-
रेणाप्यन्तर्जर्जरतां गताः ।
१५. स्वोदात्ताचरणेन पुरुष प्रात्मानमुन्नयति, अनुदात्ताचरणेन चा-
धो नयति ।
१६ अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति (अनर्घ०)
११. अवसानोत्तरस्मिन्नित्यसमर्थसमासः । अवसानमिति देहेन सम्ब-
द्धमिति सापेक्षम् । सापेक्षमसमर्थं भवति । तेन देहावसानोत्तरस्मि-
न्नित्येवं न्यासो न्याय्यः ।
१२. दुर्लभस्त्रिपदस्तत्पुरुष इति त्रयाणां लोकानां नाथ इति समासो
न स्यात् । तेन त्र्यवयवो लोकस्त्रिलोकः । मध्यमपदलोपी
समासः । त्रिलोकस्य नाथस्त्रिलोकनाथ इत्येवं व्याख्येयम् ।
१३. सापेक्षत्वेऽपि गमकत्वात्समासो देवदत्तस्य गुरुकुलमितिवत् ।
तेन ज्ञातयाथार्थ्येति साधु ।
१४. त्रिसहस्राभिरित्यशब्दः । त्रिषु जातिसहस्रेषु इति वक्तव्यम् ।
क्वचित् त्रिसहस्रमित्येकवचनान्तं प्रयुज्यते, व्यधिकं सहस्रमिति च
तद्विग्रहो भवति । त्रीणि सहस्राणीत्यर्थे तु समासो नास्ति । दिक्सं-
ख्ये संज्ञायामिति नियमात् ।
१५. पूर्वं षष्ठीसमासः सम्बन्धाख्यायको भवति पश्चात्तत्सम्बन्धवान्
विशेष्यत इत्युदात्तस्वाचरणेनेति न्यासः शोभनः स्यात् । उत्तर-
पदार्थप्रधानस्तत्पुरुष इत्युदात्तार्थो गौणतां भजत इत्युदात्तेन
स्वाचरणेनेति शोभनतरो न्यासः । स्वशब्दमन्तरेणापि तदर्थ-
गतेरुदात्तेनाचरणेनेति शोभनतमः ।
१६. सहशब्देन सदृशवचनेन समासो द्रष्टव्यः । वोपसर्जनस्येति वा
सादेशः । अत एव सत्वाभावपक्षे श्रीरामायणे प्रयोगः-तं तु देशं
न पश्यामि यत्र भ्राता सहोदरः ( ) इति ।१. अकूपारः समुद्रः । २. उपजापः कर्णेजपः ।