पृष्ठम्:शब्दापशब्दविवेकः.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८० शब्दापशब्दविवेके


४. धर्मिष्ठे राज्ञि१ बल्यपीडिताः प्रजा नन्दन्ति । ५. वर्तमानस्य वैषम्यस्य प्रतीकारार्थं यतनीयं साम्यं च कर्षं- चित्कल्पनीयम् । ६. ये संस्कृतपुनरुद्धारमिच्छन्ति ते संस्कृतज्ञान्भूयो मानयन्तु । ७. प्रश्नान्वक्तु२मक्षमोऽसौ चिरं मौनास्थितः स्थितः । ८. नृणां श्रेष्ठो रामो धर्मज्ञां योषित्सर्वगुणालंकृतां सीतां परिणिनाय । ९. गीर्वाण३ समर्पणीया इमे बलयो न दूषणीयाः । १०. आगामिपूर्णिमापूर्वप्रकाश्या निबन्धाः सम्प्रेष्या इति सबहुमान- मभ्यर्थ्यन्ते विपश्चितः । ४. बलिभिः करैः पीडिता इति बलिपीडिताः । तृतीयातत्पुरुषः । ततो नञ्समासः । तेन अबलिपीडिता इत्येव साधु । ५. प्रतीकारार्थमित्यसमर्थसमासोऽयम् । वैषम्यशब्दापेक्ष: प्रतीकार- शब्दोऽर्थशब्देन समसनं नार्हति । सापेक्षम समर्थं भवतीति । समर्थानां च पदविधिर्भवतीति । प्रतीकाराय, वैषम्यप्रतीकारार्थ- मिति समासेन वा वक्तव्यम् । ६. पुनः संस्कृतोद्धारमित्येवं समासो निर्दुष्टः स्यात् । उद्धारशब्दः (कर्मभूतं) संस्कृतमाकाङ्क्षति । तेन प्रथमं संस्कृतोद्धार इति षष्ठीतत्पुरुष आस्थेयः, ततः पुनः शब्देन समासः । तस्मात् पुनःसंस्कृतोद्धार इत्येव साधु । यथा वाक्यपदीयकारस्य भगवतो हरेर्भूयोद्रव्यसमुद्देश इति प्रयोगः । ७. मौनमास्थित इति व्यासेन वक्तव्यम् । द्वितीयासमासविधेर- भावात् । द्वितीयेति योगविभागाद्वा समास इति समाधेयम् । ८. सर्वयोषिद् गुणालङ् कृतामित्येवं न्यासः श्रेयान् । पूर्वं षष्ठीसमासः पश्चात्कर्मधारय इत्येष क्रमः प्रायिकः । ९. गीर्वाणेभ्यः समर्पणीया इत्येवं वाक्यमाश्रयणीयम् । चतुर्थीस- मासस्याविधेः । १०. आगामिपूर्णिमायाः पूर्वमित्येवं विग्रहेण वक्तव्यम् । पञ्चमी समासस्याविधानात् । न च पूर्वेण पञ्चमीसमासः शिष्टप्रयोगेषु दृष्ट इत्यलं तत्समाधानयत्नेन ।१. बलिः करः । २. प्रतिवक्तुम् । उपसर्गाणां द्योतकत्वान्नार्थ: प्रतिना। तथा च भारते प्रयोगः-प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व चेति (वन०) । ३. गीर्वाणा देवाः ।