पृष्ठम्:शब्दापशब्दविवेकः.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दुर्घटासमर्थसमासः २७९


२८. भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः । कुमारकविमारकाः (नारा० ३९।७) । २९. याते कतिपयाहे च (कथा० ४२।१५३) । २८. नायं षष्ठीसमासः । विमारक इत्यत्र भविष्यदर्थे ण्वुल् । अके- नोर्भविष्यदाधमर्ण्ययो: (२।३।७०) इत्यनेन षष्ठीनिषेधः । तेन वाक्ये द्वितीया श्रोष्यते । द्वितीयासमासस्य चेह विधायकं नेत्यप- शब्द एवायम् । २९. कतिपय शब्दः संख्या न । तेन द्विगुसमासस्याप्रसङ्गः । यातेषु कतिपयेष्वहः स्विति वक्तव्यम् । इत्यविहितनिषिद्धसमासविवेचनम् ।

दुर्घटासमर्थसमासाधिकारश्चतुर्थः । १ इमां प्रश्नोत्तरीं परिशीलयिष्यसि चेद् ध्रुवं परीष्टिं१ तरिष्यसि । २. न हि मृत्युनिर्भयचेतसां वीराणामजन्यं नाम किञ्चिदस्ति । ३. पुंसां शरीरं हि पुण्यावासः परमेश्वरस्य । तस्य परासृग्रञ्जनं कथमुपपद्येत । १. प्रश्नाश्चोत्तराणि चेति प्रश्नोत्तराणि प्रश्नोत्तरं वेति युज्यते वक्तुम् । परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरित्युत्तरपदस्य उत्तरशब्दस्य लिङ्गम् । समाहारे तु स नपुंसकमिति समासस्य नपुंसकत्वम् । नात्र बहुव्रीहिः शक्यशङ्कः । चार्थस्य विद्यमानत्वाद् द्वन्द्वस्य दुर्वारत्वात् । २. भयशब्दो हि मृत्युसव्यपेक्ष इति निःशब्देन समासमप्राप्य मृत्यु- शब्देन प्रथमं समसनमर्हति । मृत्योर्भयं मृत्युभयम् । निष्क्रान्तं मृत्युभयात् इति निर्मृत्युभयम् । निर्मृत्युभयं चेतो येषां तेषां निर्मृत्युभयचेतसामित्ययं न्यासो न्याय्यः । ३. तस्य परासृजारञ्जनमित्येवं न्यासः कार्यः । कर्तृकरणे कृता बहुलमिति बहुलग्रहणात्समासो न । क्वचित्प्रवृत्तिः क्वचिद- प्रवृत्तिरित्यादि चतुर्विधं बाहुलकमाहुः ।१. परीक्षाम् ।