पृष्ठम्:शब्दापशब्दविवेकः.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७८ शब्दापशब्दविवेके


२२. अगवि च गोत्वं यदि भवदिष्टं, भवति भवत्यपि सम्प्रति गो- त्वम् ॥ २३. यावत्साधनदेशमवर्तमानो यावत्साध्यदेशवृत्तिरुपाधिः । २४. एव च व्याख्या माने योगभाष्यग्रन्थो प्यनुपपद्येत । २५. नानाकर्म निरीक्षमाणहृदया (राज्ञी बिन्दुमती) (मोह० ४।११) । २६. पार्श्वापार्श्वि सुपक्वपूगनिवहं काश्चिद्गुटिकां संमन्वते मोहिनीम् (मोह० ५।१७) । २७. दिनानुदिनमद्भुतं हृदयाकाङि्क्षतं वर्धितम् (मोह. ७।१०) २२. भवदिष्टम् इत्यपशब्दः । भवत इष्टमित्येवं व्यासेन वक्तव्यम् । क्तेन च पूजायाम् इत्यनेन षष्ठीसमासनिषेधात् । २३. यावत्साधनदेशम् इति नायं समासः । ततोऽन्यत्रापि दृश्यत इति यावद्योगे द्वितीया । २४. अनुपपद्यतेत्यपशब्दः । लोके तिङन्तेन समासस्याविधेर्नोपपद्यते- त्येव साधु । २५. नानाकर्मेति द्वितीयान्तं पूर्वपदम् । तस्य शानजन्तेन निरीक्ष- माणेन केन समासः । २६. पार्श्र्वापार्श्वि इत्यत्र किं नाम समास-विधायकं शास्त्रम् ? तत्र तेनेदमिति सरूपे इति चेन्न । तत्र सूत्रे तेन शब्देन प्रहरणविषये, तत्रशब्देन च ग्रहणविषये पदे गृह्य ते । इदमिति युद्धं गृह्यते । इच्च कर्मव्यतिहारे विधीयते । प्रकृते सर्वमिदं नास्तीत्यपशब्दः स्व- कपोलकल्पित एषः । २७. दिनानुदिनम् इत्यविहितदुर्घटोऽयं समासः । अनुगतं दिनमनु- दिनम् । दिनमनुगतं वाऽनुदिनम् इति प्रादिः समासः । दिनस्यानु- दिनमिति षष्ठीसमासः। समासार्थस्तु न कश्चिदस्ति । अन- र्थकं पदकदम्बकम् । दिनं दिनमनु अनुदिनम् इति वीप्सायाम- व्ययीभावः । पूर्वावववो दिनशब्द उत्तरावयवेनानुदिनेनासमर्थे गडु भूतः । अनुदिनम् इत्येतावतैव विवक्षितार्थसमर्पणात् ।