पृष्ठम्:शब्दापशब्दविवेकः.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अविहितनिषिद्धसमासः २७७


१७. मास्म केवलो गम: । एते वयं त्वत्साकं यामः । १८. कलहं स राममहितः कृतवान् (भट्ठि०) १९. प्रेम्णा शरीरार्धहरां हरस्य (कु०१२) २०. पटपाचकाद्याः प्रकृतयः सुप्तिङाद्याः प्रत्ययाः स्वोपस्थाप्यार्थस्य बोधं नियमतः शब्दान्तरं सहकृत्य जनयन्ति (कारिकावल्यां शब्द- शक्तौ षष्ठ्यां कारिकायाम्) २१. सखे सम्प्रति किंकार्यव्यग्रोऽसि । क्षणं विरम । विश्रम्भालापसुखं निर्विशावः । १७. सहयुक्तेऽप्रधान इति सहार्थैर्योगे तृतीया विहिता । एतल्लक्षणा- यास्तृतीयायाः समासस्तु क्वचिन्नोक्त इति त्वया साकमित्येवं व्यासेन वक्तव्यम् । १८. मतिबुद्धिपूजार्थेभ्यश्चेति क्तस्य वर्तमानकालो भूतकालतां न बाघते । तेनैक दिक् (४।३।११२) इत्यतः तेन इत्यधिकारे उप- ज्ञाते (४।३।११५) इति निर्देशेन भूतकालस्याबाधज्ञापनात् । उप- ज्ञाते इत्यत्र हि भूते क्तो न वर्तमाने । अन्यथा क्तस्य च वर्तमाने इति षष्ठीविधानादुपज्ञातशब्दस्य तेनेति तृतीयायोगो न स्यात् । सामान्यविषयकं चेदं ज्ञापकमित्येव न्याय्यम् । पूजितो यः सुरा- सुरैरित्यादिप्रयोगा मा स्म व्याकुप्यन्निति । राममहित इति रामेण महितो (योऽभूत्) स राममहितः । १९. अर्धं नपुंसकम् इति षष्ठीसमासापवादोऽयं योग:, तेनार्धं शरीर- स्येत्यर्धशरीरम्, तद्धरतीत्यर्धशरीरहरा, ताम् इत्येवं भवितव्यम् । स्थितस्य गतिश्चिन्तनीयेति अर्धं हरतीत्यर्धहरा, शरीरस्यार्ध- हरेति शरीरार्धहरा, ताम् । एकदेशान्वयात् । २०. सहकृत्येति दुष्यति । सहशब्दो गतिर्नेति गतिसमासाभावे क्त्वो ल्यब्दुर्लभः । सहकृत्वेत्येव साधु । २१. कि क्षेप इति क्षेपे गम्यमाने किंशब्दः समस्यते । तत्पुरुषश्च समासो भवति । न चात्र क्षेपो गम्यते । तेन कस्मिन्कार्ये व्यग्र इतीत्थं व्यासेन वक्तव्यम् । बहुब्रीहौ समासे त्वसत्यपि क्षपे किं- शब्दः समस्यते निर्बाधम्-किंसमाचाराः सम्प्रति तातपादाः । .