२७६ शब्दापशब्दविवेके
९. एतत्पर्वतोपरिष्टाद् विस्तीर्णा समतला भूरस्ति ।
१०. परस्परविरोधजनयितार इमे ग्रन्था न विश्वजनीना१ इति
सत्यम् ।
११. अस्त्ययं लोकः पुत्त्राभिलाषुकः ।
१२. अशोच्या हि पितुः कन्या सद्भर्तृप्रतिपादिता (कु० ६।७९) ।
१३. महिलोत्तमायाः श्रीसीतायाः के वयं महिमानं परिच्छेत्तुम् ।
१४. कविप्रथमपद्धतिप्रणेता भगवान्वाल्मीकिरद्यापि कवीनामुपजीव्यः ।
१५. कार्तवीर्यार्जुनो नाम राजा बाहुसहस्त्रभृद् बभूव ।
१६. शुक्राचार्यकन्यादेवयान्या वृषपर्वदुहितृशर्मिठायाश्च मिथ: कलहो
भूत् ।
९. पूररणगुणेत्यादिना शास्त्रेणाव्ययेन षष्ठीसमासनिषेधात् पर्वत-
स्योपरिष्टादित्येव साधु ।
१०. परस्परविरोधस्य जनयितार इत्यसमासेन वक्तव्यम् । कर्तरि
चेति षष्ठीसमासनिषेधात् ।
११. न लोकाव्ययनिष्ठाखलर्थतृनाम् (२।३।६९) । इति कृद्योगलक्ष-
णाया: षष्ठ्या निषेधे पुत्राद् द्वितीया । पुत्त्रमभिलाषुकः । अभि-
लषेरुकञ् । द्वितीयासमासविधेरभावाद् वाक्यमेव साधु ।
१२. अत्र चतुर्थीसमासविधेरभावात् सद्भर्त्रे प्रतिपादितेत्येव साधु ।
अस्ति च तत्पाठान्तरं मातृकाग्रन्थेषु ।
१३. महिलानामुत्तमाया इत्येव साधु । उक्तोऽत्र हेतुः ।
१४. कविप्रथमपद्धतेः प्रणेतेत्येव न्यासो न्याय्यः । कर्तरिइति षष्ठी-
समास निषेधात् ।
१५. विशेषरणं विशेष्येण बलमिति समासः । कार्तवीर्यश्चासावर्जुन-
श्चेति विग्रहः । षष्ठी समानाधिकरणेन न समस्यत इति
प्रतिषेधे सत्यपि विशेषणं विशेष्येण बहुलमिति समासो भवत्येवेति
वृत्तिः ।
१६. शुक्राचार्यकन्याया देवयान्याः वृषपर्वदुहितुः शर्मिष्ठाया इत्येवं
व्यासेन वक्तव्यम् । पूरणगुणेत्यादिना सूत्रेण षष्ठ्याः समाना-
धिकरणेन समासनिषेधात् ।१. विश्वजनेभ्यो हिताः ।