अविहितनिषिद्धसमासः २७५
३. दुःखाग्निदग्धाञ्जीवनोपरमतो जनाननुकम्पन्ते सम्यग्दर्शन-
सम्पन्ना महात्मानः ।
४. विद्वत्पूजाकर्तुर्न केवलं व्यतिक्रमः स्वार्थहानं च ।
५. अष्टाध्यायीमधीतवतः कस्य नाम न विदितो महिमा पाणिनि-
सूत्रकारस्य ।
६. स षष्टिरूप्यकारिण मासिकं वेतनं लभते न च निर्वृणोति१।
७. मत्संमतोऽयं पक्षस्तवाप्यभिमत इति संभावयामि ।
८. सहजं हि काककार्ष्ण्यं तत्क्रौर्यचापले च ।
३. विद्वत्पूजां न करोति, तस्येत्यर्थो विवक्षितः । प्रसज्यप्रतिषेधेऽत्र
नञ् । स च न समस्यते । पर्युदासेन च नेह क्वचिदर्थः । तेना-
साधुरेवायं न्यासः ।
४. जीवनोपरमत इति द्वितीयान्तं पदम् । जुगुप्साविरामप्रमादार्थाना-
मुपसंख्यानमिति जीवनशब्दात् पञ्चमी । तस्याः पञ्चम्याः शत्र-
न्तेनोपरमच्छब्देन केन समासो विधीयत इति भवान्पृष्ट आचष्टाम्
पञ्चमीति योगविभागात् समास इति चेन्मैवम् । तस्य शिष्ट-
प्रयोगेषु निर्वाहार्थमभ्युपगमात् ।
५. पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेनेति षष्ठीसमास-
निषेधे पाणिने: सूत्रकारस्येति साधु । विशेषणं विशेष्येण बहुल-
मित्यनेन तु समासो भवत्येव । तदा नियोगतो विशेषणस्यैव
पूर्वनिपातः । सूत्रकारपाणिनेः ।
६. दिक्संख्ये संज्ञायामिति नियमात् संज्ञायामेव संख्यावचनाः
समानाधिकरणेन समस्यन्ते । अत्र च संज्ञा नास्तीति षष्टिं
रूप्यकारणीति व्यासेन वक्तव्यम् ।
७. क्तेन च पूजायामिति सूत्रेण क्तस्य च वर्तमाने इति विहितायाः
षष्ठ्याः समासो नेति मम सम्मत इत्येव वाच्यम् । सूत्रे पूजा-
ग्रहणं मतिबुद्धिपूजार्थेभ्यश्चेति सूत्रोपलक्षणम् ।
८. अनित्योऽयं गुणेन निषेधः । तदशिष्यं संज्ञाप्रमाणत्वादिति-
निर्देशादिति पूरणगुणेत्यादिसूत्रे दीक्षितः। अनित्यत्वं भाष्ये न
दृश्यत इति दाधिमथा । तेन काकसम्बन्धिकार्ष्ण्यं काककार्ष्ण्य-
मित्येवं मध्यमपदलोपिसमासकल्पनया साधुत्वमवसेयम् ।१. सुखायते, सुखितो भवति ।