पृष्ठम्:शब्दापशब्दविवेकः.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७४ शब्दापशब्दविवेके


३. विंशतिरिमे च्छात्राः, देवदत्तस्त्वात्मचतुर्थः । ४. विषमेस्थस्य हि न पापाच्छङ्कते चेतः । ५ यः स्थण्डिलेशायी स स्थाण्डिलो ब्रह्मचारीत्युच्यते । ६. सततनैशतमोत्तमन्यतः (किराते)। ३. आत्मनश्च पूरण इत्यलुकाऽऽत्मना चतुर्थ इति साधु । आत्मा चतुर्थोऽस्येति बहुव्रीहौ तु न दोष: । ४. स्थे च भाषायामिति निषेधात्सप्तम्या लुक् । तेन विषमस्थस्ये- त्येव साधु । ५. नेन्सिद्धबध्नातिषु चेति सम्तम्या अलुक्् न । तेन स्थण्डिलशायी- त्येव शब्दः । स्थण्डिलशायीत्यत्र व्रते (३।२।८०) इति णिनिः । ६. ओजःसहोऽम्भस्तमसस्तृतीयाया इत्यलुगिष्यते । उत्तरपदाधि- कारेऽपि तदन्तविधिप्रवृत्तेः । इत्यलुक्समासविवेचनम् । अविहित निषिद्धसमासाधिकारस्तृतीयः । १. अस्र-वारिस्रवन्नेत्रयुगेन मुखेन स आत्मवृत्तान्तं मन्दमन्दमलापीत् ।१ २. व्यवहारे सर्वश्रेष्ठः स्याः शास्त्रे च परिनिष्ठितः । १. अस्रवारि अश्रुजलं स्रवत् (स्रावयदित्यर्थः) नेत्रयुगं यस्य तेनेति विग्रहः । सत्र अस्रवारीति द्वितीयान्तम् । तस्य शत्रन्तेन स्रवच्छब्देन केन शास्त्रेण समासः । न केनापीति अस्रवारिस्रा- विनेत्रयुगेनेति वाच्यमुपपदसमासेन । २. न निर्धारण इति निर्धारणे या षष्ठी सा न समस्यत इति सर्वेषां श्रेष्ठः इति साधु । निर्धारणे सप्तम्यपि विहिता । तस्या अनिषेधात् सर्वेषु श्रेष्ठः सर्वश्रेष्ठ इति साध्विति केचित् । अनर्थ- कस्तार्हि षष्ठीसमासनिषेध इति न शङ्क्यम् । षष्ठीसमासस्य सप्तमीममासस्य च स्वरे विशेषात् ।१. लप व्यक्तयां वाचि, तस्य लुङि रूपम् ।