६ शब्दापशब्दविवेके
२२. भुवनप्रथितप्रख्याणां क्षत्रियपुङ्गवानां भूरेषेति कस्य नेहाभिमानः ।
२३. दुराचारस्य प्रणश्यति कीर्तिः प्रणश्यति च वित्तम् ।
२४. यद्यपि नद्यां निस्नातोऽस्मि तथाप्यस्यां सरस्यां सिष्णासामि ।
२५. दाक्षिण्यं नाम परछन्दानुवर्तनम् । प्रियङ्करोऽयं गुणः ।
२६. या नः साम्प्रतिकी परिस्थितिः सा निपुणमालोच्या।
२७. प्रखरनखरैः प्रतिष्किरति१ व्याघ्रो मेषीम् ।
२८. त्रिहायणेयं२ पाठशाला कमप्यपूर्वं प्रकर्षं प्राप्तेति यत्सोऽस्या
अध्यक्षस्य गुणः ।
२९. किं भोः सुसिक्तम् ? यथा तथा सुषिक्तं किं तवानेन ?
२२. भुवनप्रथितप्रख्यानामित्येव साधु । प्रसिद्धे शस्य यवचनं
विभाषेति भाष्ये स्थितम् । इदमुक्तं भवति । चक्षिङ: ख्यात्र् इति
ख्शदिरयमादेशः । शस्य च यवचनमसिद्धकाण्डे द्रष्टव्यम् । तेन
शकारेण व्यवधानात् प्रातिपदिकान्तेति शास्त्रेण वैकल्पिकं णत्वं
न ।
२३. उपसर्गादसमासेऽपीति णत्वे प्रणश्यतीति यथास्थितं साधु ।
२४. निस्नातोऽस्मीति साधु । निनदीभ्यां स्नातेः कौशले इति कौशले
गम्यमाने णत्वं विहितम् । नेह कौशलं विवक्षितम् । सम्यक्
स्नात इत्येवार्थः।
२५. परच्छन्दानुवर्तनमिति तुकि सति साधु ।
२६. उपसर्गात्सुनोतिसुक्तोत्यादिना मूर्धन्ये परिष्ठितिरित्येव साधु ।
परिशब्दोऽनर्थक इति चेन्मतम् अधिपरी अनर्थकाविति कर्म-
प्रवचनीयत्वे यथास्थितेऽपि न दोषः ।
२७. हिंसायां प्रतेश्चेति सुटि प्रतिस्किरतीत्येव साधु । परिनिविभ्यः
सुटो मूर्धन्यादेशविधानात्।
२८. त्रिहायनेत्येव साधु । त्रिचतुर्भ्यां हायनस्यति णत्व वयस्येव
स्मर्यते । कालकृतशरीरावस्था वयः, तच्चेह नास्ति ।
२९. सुः पुजायामिति कर्मप्रवचनीयत्वे उपसर्गनिमित्तं षत्वं न । सुषि-
क्तमित्यत्र पूजार्थेऽसत्युपसर्गत्वं तदवस्थम् । तेन षत्वमित्युभयत्रा-
दोषः ।
१. हिनस्ति । २. त्रिवार्षिकी।