पृष्ठम्:शब्दापशब्दविवेकः.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध समासेषु विवेच्यानि ।


तत्र नित्यसमासाधिकारः प्रथमः । १. मद्यमकरन्द१ माक्षिकारणां२ वाची मधुशब्दो द्विलिङ्गः । २. चिरमनुनाथितोऽपि कोपनोऽसौ स्वी न कृतवान्प्रणयं शिष्याणाम् । ३. भुजङ्गानां पयसः पानं विषमेव वर्धयति न तु दशनप्रवृत्तिं तेषामुपरमयति । ४. आकाशेन संकाशं नीलं विमलं च जलमस्याः सरस्याः । ५. धर्माधिकारिणंमन्याः शास्त्रिणो बलात्पातितानामपि प्रति- संस्कारं न प्रतिपद्यन्ते । १. सुप्यजातौ णिनिस्ताच्छील्ये इति केवलाद् (निरुपपदात्) ब्रूधा- तोणिनिर्न संभवति । तेन वाचक इति वक्तव्यम् । मद्यमकरन्द- माक्षिकवाचीति वा । उपपदमतिङ् इति नित्य समासः । अस्वपद- विग्रहोऽविग्रहो वा नित्यसमासः । २. न स्वीकृतवानित्येव न्याय्यम् । ऊर्यादिच्चिडाचश्चेति गतिसंज्ञायां कुगतिप्रादय इति नित्यः समासः । ३. कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् इति कर्मण्युपपदे धातो- र्नपुंसकलिङ्गे भावे ल्युट् प्रत्ययो भवति । ल्युट् च (३।३।११५) इत्यनेनैव सिद्धे प्रत्यये नित्यसमासार्थं वचनम् । तेन पयःपान- मित्येव साधु । ४. उत्तरपदे त्वमी निभसंकाशनीकाशप्रतीकाशोपमादय इत्यमर- वचनान्निभादय उपमावचना नित्यं समस्यन्ते । उत्तरपदशब्दो हि समासचरमावयवे रूढः । ५ द्वितीयान्ते धर्माधिकारिन्शब्द उपपदे मन्यतेर् आत्ममाने खश्चेति खश्प्रत्यये नलोपः प्रातिपदिकान्तस्येति (८।२।७) नलोपे तस्या- सिद्धत्वाद् अरुर्दिषदजन्तस्य मुम् (३।३।६७) इति मुम्न । तेन धर्माधिकारिमन्या इत्येव शब्दः ।१. मकरन्दःपुष्परसः। २. माक्षिकं मधु।