पृष्ठम्:शब्दापशब्दविवेकः.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तद्धितपरिशेषः २७१


१०७. तदिदं पार्षतेनेह महदाधार्मिकं कृतम् (भा० द्रोण० १९५।११) । १०८. कथं शाश्वते ब्रह्मणि स्थितः ? १०७. अधर्माच्चेति वक्तव्याद् अधर्मं चरतीत्यार्मिक इति ठग् भवति । नञ् विरोधे । इह त्वार्मिकस्य कर्म आधर्मिक- मुक्तमुपचारात् । कर्मप्रत्ययमन्तरेणापि कर्माभिधानम् । १०८. शश्वद् भवं शाश्वतम् । अव्ययानां भमात्रे टिलोप इति तु न । बहिषष्टिलोपवचनादस्य वचनस्यानित्यत्वम् । इति तद्धितपरिशेष विवेचनम् ।