२७० शब्दापशब्दविवेके
१०१. देवेभ्यो मद्भयं नास्ति सत्पथीनस्य वै मनाक् (स्कन्द० का०
४।५८।१६७ ।
१०२. त्वय्यधीनः शमो राजन् मयि चैव विशांपते (भा० उ० ९५।१३) ।
१०३. अत्रान्तरे तस्य राज्ञो धार्मिकी धीरजायत (राज० ७।४९३)।
१०४. सतां साप्तपदी मैत्री (स्कन्द० का० ४।९।३५) ।
१०५ अहस्त्रिकृत्वः सन्ध्यां च द्विकृत्वो देवदर्शनम् ।
एककृत्वस्तु शयनं सज्जनेन्द्रः करोति हि ॥
१०६. रोषेण महताविष्टो दन्तान् कटकटाय्य च (रा० ६।८०।१) ।
१०१. सत्पथीन इत्यपाणिनीयम् । तत्सदिःपथ्यङ्ग पत्रपात्र व्याप्नोति
(५।२।७) इत्यनेन सर्वादेरेव पथ्यन्तात्खो विधीयते । एकत्र
विषये विहितान्प्रत्ययान् अन्यत्रादिशन्ति बाला अनुकरणशीलाः ।
तदिदमसदृशमबालानां प्रज्ञानाम् ।
१०२. त्वय्यधीनः । आचार्यः पाणिस्त्वध्युत्तरपदात्खमिच्छति । तेना-
समासे खो न प्राप्नोति । वाक्यकार: कात्यायनस्तु वाक्यं
वक्तर्यधीनं हि इत्यसमासेपि खं प्रयुङ्क्ते । उत्तरोत्तरं मुनीनां
प्रामाण्यम् इति तदपि साधु । इनमधिगतोऽधीनः । अत्यादयः
क्रान्ताद्यर्थे द्वितीययेति प्रादिः समास इत्येवमपि समादधते विदां
वरा: ।
१०३. धार्मिकी धीरित्यत्र शब्दसाधुत्वं नाशङ्क्यते, प्रयोगसाधुत्वं
खल्वभि शङ्क्यते । धर्मं चरति (४।४।४१) इति धर्म चरति
शीलयति यः स धार्मिक उच्यते । धर्मेभवा धार्मिकी । अध्यात्मा-
दित्वाट् ढञि प्रयोगसौष्ठवमवसेयम् ।
१०४. सप्तभिः पदैरवाप्यते इति साप्तपदी । शेषे इत्यण् । पाणिने-
स्त्वविदित एष शब्दः ।
१०५. द्वित्रिचतुर्भ्य: सुच् (५।४।१८) इति कृत्वसुचः सुचा बाघात्तत्प्राप्ति-
रेव न । एकस्य सकृच्च (५।४।१९) इति सकृदादेशात् संयोगान्तस्य
लोप (८।२।२३) सुचो लोपात् सकृद् इत्येव प्रयोगार्हः परिनि-
ष्ठित: शब्द: ।
१०६. कटकटाय्येति प्रमादः । कटकटाशब्दो डाजन्तो गतिः । डाच च
कृभ्वस्तियोगे विधीयते । अत्र तु करोतिरेव न श्रूयते । दूरे क्त्वो
ल्यबादेशः।