अध समासेषु विवेच्यानि ।
तत्र नित्यसमासाधिकारः प्रथमः ।
१. मद्यमकरन्द१ माक्षिकारणां२ वाची मधुशब्दो द्विलिङ्गः ।
२. चिरमनुनाथितोऽपि कोपनोऽसौ स्वी न कृतवान्प्रणयं
शिष्याणाम् ।
३. भुजङ्गानां पयसः पानं विषमेव वर्धयति न तु दशनप्रवृत्तिं
तेषामुपरमयति ।
४. आकाशेन संकाशं नीलं विमलं च जलमस्याः सरस्याः ।
५. धर्माधिकारिणंमन्याः शास्त्रिणो बलात्पातितानामपि प्रति-
संस्कारं न प्रतिपद्यन्ते ।
१. सुप्यजातौ णिनिस्ताच्छील्ये इति केवलाद् (निरुपपदात्) ब्रूधा-
तोणिनिर्न संभवति । तेन वाचक इति वक्तव्यम् । मद्यमकरन्द-
माक्षिकवाचीति वा । उपपदमतिङ् इति नित्य समासः । अस्वपद-
विग्रहोऽविग्रहो वा नित्यसमासः ।
२. न स्वीकृतवानित्येव न्याय्यम् । ऊर्यादिच्चिडाचश्चेति गतिसंज्ञायां
कुगतिप्रादय इति नित्यः समासः ।
३. कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् इति कर्मण्युपपदे धातो-
र्नपुंसकलिङ्गे भावे ल्युट् प्रत्ययो भवति । ल्युट् च (३।३।११५)
इत्यनेनैव सिद्धे प्रत्यये नित्यसमासार्थं वचनम् । तेन पयःपान-
मित्येव साधु ।
४. उत्तरपदे त्वमी निभसंकाशनीकाशप्रतीकाशोपमादय इत्यमर-
वचनान्निभादय उपमावचना नित्यं समस्यन्ते । उत्तरपदशब्दो हि
समासचरमावयवे रूढः ।
५ द्वितीयान्ते धर्माधिकारिन्शब्द उपपदे मन्यतेर् आत्ममाने खश्चेति
खश्प्रत्यये नलोपः प्रातिपदिकान्तस्येति (८।२।७) नलोपे तस्या-
सिद्धत्वाद् अरुर्दिषदजन्तस्य मुम् (३।३।६७) इति मुम्न । तेन
धर्माधिकारिमन्या इत्येव शब्दः ।१. मकरन्दःपुष्परसः। २. माक्षिकं मधु।