पृष्ठम्:शब्दापशब्दविवेकः.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तद्धितपरिशेषः २६७


८३. तिलाश्चम्पकसंश्लेषा:प्राप्नुवन्त्यधिकवासताम् । रसोनभक्षास्तद्गन्धं सर्वे साङ्क्रामिका गुणाः ।। (कामन्दक:)। ८४. मय्यपि योऽभिक: (भट्टि० ८९६२) । ८५. चङ्क्रमावान् समागत्य सीतामूचे सुखा भव (भट्टि ० ५।६४) । ८६. पश्यामि तामित इत: पुरतश्च पश्चात् (मालती०) । ८७. वृद्ध्याजीवस्तु वार्धुषिरित्यमरः । अत्र वार्धषिरित्यस्य साघुत्वं चिन्तय । ८८. गणपति देवताऽस्येति गाणपत्यो मन्त्रः । ८९. पथकपथिकशब्दयो: को विशेषः ? ८३. अधिवास इत्येव भावप्रत्ययान्तः । भावेऽत्र घञ् । अपरो भाव- प्रत्ययो नापेक्ष्यते । ८४. अनुकाभिकाभीकः कमिता (५।२।७८) इत्यनेन क्रियाविशिष्ट- साधनवाचिभ्यामन्वभिभ्यामनुकादयः कन्प्रत्ययान्ता निपात्यन्ते । कर्तरि चायं तद्धितस्तेन कर्मणोऽनुक्तत्वात्कर्मणि द्वितीयया भवितव्यम् । हरदत्तमिश्रोऽपि द्वितीयामुदाहरति । ८५. सुखा भवेति दुरुपपादम् । सुखप्रियादानुलोम्य इति कृञो योगे डाज्विहितो न तु कृभ्वस्तियोगे । अनुकूला भवेत्यर्थः । ८६. पूर्वाधरावराणामसि पुरधवश्चैषाम् (५।३।३९) इति पूर्वशब्दाद- स्तात्यर्थेऽसिः प्रत्ययस्तत्संनियोगेन पुर् इत्यादेशः । तेन पुरत इत्यत्रातसुच्प्रत्ययो दुर्लभ: । न केवलं कविरेवात्र प्रमाद्यति, अमरा- दयः कोषकृतश्चापि । तथा चामरः पठति-स्यात्पुरः पुरतोऽग्रतः । विश्वोऽपि-पुरतः प्रथमे चाग्रे इति । केचित्तु दक्षिणोत्तराभ्यां तसुज्विधानेनैवेष्टसिद्धौ अतसुच् इत्यकारोच्चारणमन्यतोऽपि विधानार्थम् । तेन पुरत इति सिध्यतीति तत्त्वबोधिनीकारः । ८७. वृद्धेर्वृधुषिभावो वक्तव्य इति प्रत्ययसंनियोगेन विधानाद् वृधुषिरिति न सिध्यति । प्रयच्छति गर्ह्यमित्यनेन ठक: प्राप्तेः । प्रकृत्यन्तरं वा वृद्धिपर्यायो वृधुषिशब्दः । तथापि ठगेव स्यात् । १८. गाणपतो मन्त्र इत्येव साधु । अश्वपत्यादिभ्यश्चेत्यण् ८९. पथि कुशलः पथकः । तत्र कुशलः पथः (५।२।६३) इत्यनेन वुन् । पन्थानं गच्छति पथिकः । पथः ष्कन् (५।१।७५) ।