पृष्ठम्:शब्दापशब्दविवेकः.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६६ शब्दापशब्दविवेके


७७. संयुगे संमुखीनं तमुद्गदं प्रसहेत कः (भट्टि०) । ७८. शमीपलाशमिश्रांश्चतुरञ्जलिमात्राञ्शूर्पणोपसादयति पश्चा- दग्नेः (गी० गृ० २।१।१५)। ७९. नभ्यं साधु, नाभ्यं चापि । तत्कस्मात् ? ८०. कनीयान्गुणवाञ्श्रेष्ठः श्रेष्ठश्चेन्निर्गुणो भवेत् (अत्रि स्मृ० श्लो० २५६) । ८१. न च ग्रामेयकालापैस्त्वं मां बाधितुमर्हसि (बृ० श्लो० सं० ८।३७) । ८२. कथं शमिनीतरा (शमित्यष्टाभ्यो घिणुन् ३।२।१४१ सूत्रे भाष्ये) । ७७. संमुखीन इत्यस्य संमुखे स्थित इत्यर्थं विवक्षति, न चायमिममर्थ- मर्पयितुं शक्तः । यथामुखसंमुखस्य दर्शनः ख इति शास्त्रं ह्यत्र खं विधत्ते । दर्शन इत्यधिकरणे ल्युट् । दृश्यतेऽस्मिन्निति । संमुखं सर्वं मुखं दृश्यतेत्रेति संमुखीनो दर्पणः । तेन संमुखे स्थितमिति वक्तव्यम् । अभिमुखावस्थानात् साधाद् भविष्यतीति हरदत्तः । तदिदं हरदत्तहरेः स्वैरो विहारः । ७८. चतुरञ्जलिमात्रान् इत्यपाणिनीयम् । प्रमाणे लो द्विगोर्नित्यम् इति मात्रचो लोपेन भवितव्यम् । चतुरञ्जलीन् इति ब्रूयात् । ७९. उगवादिभ्यो यत् (५।१।२) इत्यत्र गवादिषु नाभि नभं चेति गण- सूत्रं पठ्यते । तस्यायमर्थः-~-नाभिशब्दो यत्प्रत्ययमुत्पादयति नभं चादेशमापद्यते इति । नाभये हितो नभ्योऽक्ष: । यस्तु शरीरा- वयवो नाभिशब्दस्ततः शरीरावयवाद् इति यति कृते नाभये हितं नाभ्यं तैलमिति भवितव्यम् । गवादियता संनियुक्तो नभभावो- ऽत्र न भवति । तस्मान्नभ्यं नाभ्यं चेत्युभयं साधु विषयभेदात् । ८०. श्रेष्ठश्चेन्निर्गुणो भवेद् इत्यत्र स्मृतिकारेण वृद्धस्य आदेशः कृतः, न च स वृद्धस्य स्थाने शास्त्रेण विहितः, किन्तर्हि प्रशस्यस्य । तेनापाणिनीय एष प्रयोगः । ८१. कत्त्र्यादिभ्यो ढकञ् (४।२।९५) इत्यत्र कत्त्र्यादिषु ग्रामशब्दः पठ्यते । ततः शैषिके ढकञि ग्रामेयक इति भवति । ग्रामे भवः, ग्रामे प्रायभव इत्यादिरर्थः । ५२. ताच्छीलिकानां रूढिशब्दतया संज्ञाशब्दत्वेन संज्ञापूरण्योश्चेति पुंवद्भावनिषेधान्न दोषः ।