तद्धितपरिशेषः २६५
७२. प्रोष्ठपादप्रौष्ठपदयोः को विशेषः । यदि सहसे वक्तुम् नूनं
शाब्दिकोऽसि ।
७३. शाब्दिकमीश्वरस्वरूपं विद्वांसोऽपि वयं न तत्त्वतस्तद् विजानीमः
७४. चत्वार्याहुः पदजातानि शाब्दाः (ऋक्प्रा० १२।१७) ।
७५. किमत्राश्चर्यं कदन्नं दुःखाकुर्यादशितारम् ।
७६. सांशयिकः संशयापन्नमानप इत्यमरः (३।११५) ।
७२. प्रोष्ठपदा नाम नक्षत्रम्, ताभिर्युक्तः काल इत्यण् । तस्य लुबवि-
शेष इति लुप् । प्रोष्ठपदासु जात: प्रोष्ठपादो माणवकः । सन्धिवेला-
द्यृतुनक्षत्रेभ्योऽण् (४।३।१६) इत्यण् । जे प्रोष्ठपदानाम् (७।३।१८)
इत्यनेनोत्तरपदवृद्धिः । प्रोष्ठपदासु भव इत्यर्थे तु यथाप्राप्तं
पूर्वपदवृद्धिः 1 प्रौष्ठपदो मेघ: । यदा प्रौष्ठपदो मेघो धरणीमभि-
वर्षतीति वृत्तौ ग्रन्थान्तरत उद्धरणम् ।
७३. शब्दं करोति व्याकरोति इति शाब्दिको वैयाकरण उच्यते ।
शब्ददर्दुरं करोतीति ठक् । तेनास्थानेऽस्य प्रयोगः । तेन शब्दोक्त
शब्दप्रतिपादितमिति वा वक्तव्यम् ।
७४. शाब्दा इति शाब्दिका इत्यत्रार्थे प्रयोगः । शब्दं विदन्तीति
शाब्दाः । शैषिकोऽण् (शेषे इति सूत्रेण विहितः) । ऋषेः शौन-
कस्य प्रयोग इति मान्यः ।
७५. दुःखात्प्रातिलोम्ये इति सूत्रेण डाचो नात्र प्रसङ्गः । प्रतिकूला-
चरणेन यो दुःखमुत्पादयति स उच्यते दुःखाकरोतीति । इह तु
प्रतिकूलाचरणं किमपि व्यतिरिक्तं दुःखोत्पादनाय नास्ति ।
तेन दुःखं कुर्यादशितुरित्येवं वक्तव्यम् ।
७६. संशयमापन्नः संशयविषयीभूतो ऽर्थः सांशयिक उच्यते । संशय-
मापन्नः (५।१।७३) इत्यनेन संशयविषयीभूते प्रत्यय इष्यते न
तु संशयितरि । तथा च सांशयिकस्तृतीयः पाद इति निरुक्ते
यास्काचार्यस्य प्रयोगः । तर्हि अमरवचनस्य का गति: ?
संशयमापन्नं मानसं यस्मिन्विषये स विषय: संशयापन्नमानस
इत्येवं व्याख्येयम् ।