२६४ शब्दापशब्दविवेके
६५. मूलेनावाहयेद् देवीं श्रवणेन विसर्जयेत् ।
६६. औदरं रेचयेद् वायुम् (अग्नि पु० ३७३।७) ।
६७. पूर्वेण ग्राममभिराम आरामः ।
६८. अनावृष्टिर्जनपदे क्षयाय बाहुवार्षिकी (रा० १।८।१२) ।
६९. द्वारं ररवतुर्याम्यम् (भट्टि० १४।१५) ।
७०. आर्यस्य मयि पुत्रकल्पः स्नेहः ।
७१. यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये । (मनु० १११७) ।
कुरुशब्दात्कुरोरिमे शैषिकेऽणि कौरवा इति रूपम् । कुर्वादिभ्यो
ण्य (४।१।१।१५१) इति विहिताद् ब्राह्मणवचनात्कुरुशब्दाण्ण्ये
तस्य च तद्राजसंज्ञाया अभावादसति लुकि कौरव्या इति बहुवचने
रूपम् ।
६५. नक्षत्रेण युक्तः काल इति विहितस्य प्राग्दीव्यतीयस्याणो लुबवि-
शेष इति लुपि युक्तवद्भावे च मूलं श्रवण इति च साधू । तत-
स्तृतीयायां मूलेन, श्रवणेनेति ।
६६. शरीरावयवाद्यति उदर्यमिति तु पाणिनीयाः ।
६७. एनबन्यतरस्यामदूरेऽपञ्चम्या इत्यत्र केचित् पूर्वसूत्राद् उत्तराधर-
दक्षिणाद् इति नानुवर्तयन्ति, सामान्येन सर्वनामभ्यो विधिमि-
च्छन्ति । तन्मते पूर्वणेत्यत्र एनब् निर्दुष्ट:। वस्तुतः स्थितस्य
गतिश्चिन्तनीयेति समाधानयत्नमात्रमेतत् ।
६८. बहूनि वर्षाणि भविष्यतीत्यर्थे रामायणस्थः प्रयोगः । वर्षस्याभ-
विष्यतीत्युत्तरपदवृद्धेः पर्युदासात्केवलया पूर्वपदवृद्धया 'बाहुवर्षि-
की' इति रूपमिच्छन्ति पाणिनीयाः ।
६९. यमाच्चेति वक्तव्यमिति काशिकास्थाद्वार्तिकात् प्राग्दीव्यतीये ण्ये
याम्यमिति रूपं निर्दोषम् । भाष्ये त्वेतद् वार्तिकं न दृश्यते ।
७०. पुत्त्रकल्प इत्यात्रास्थाने कल्पप् । ईषदसमाप्तः पुत्रः पुत्त्रकल्प
इत्यनिष्टार्थप्रसङ्गात् । न हि स्नेहः पुत्रसदृशो भवति । पुत्त्रात्
किञ्चिदून इति तु वक्तव्यम् । पुत्रशब्दः पुत्रस्नेहे वर्तते । नेदं
सुभगं वच इति चेत् पुत्रवत् इति वाच्यम् । तत्र तस्येव
(५।१।११६) इति सप्तम्यन्ताद् वतिः ।
७१. भविष्यति उत्तरपदवृद्धेः प्रतिषेधात्पूर्वपदवृद्ध्या त्रैवर्षिकमित्येवा-
भिमतं पाणिनीयानाम् । अपि वा कुल्लूकधृतः पाठोऽपपाठः स्यात् ।