तद्धितपरिशेषः २६३
५८. अल्पीयांसोऽचोऽस्येत्यल्पान्तरमित्युच्यतामल्पतराच्कमिति वा ।
सोपपत्तिकं ब्रूहि ।
५९. उभे अपि भगिन्यौ सुन्दर्यौ । कनीयसी तु सुन्दरीतरा ।
६०. चाक्षुष्ये भूतग्रामे परिस्फुरति महिमा भगवतः ।
६१. कथं काषायौ गर्दभस्य कर्णौ हारिद्रौ कुक्कुटस्य पादाविति ?
६२. रामं सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्तं च धिक्
धिक् । अस्मिन्पद्ये योऽपशब्दं न वेत्ति व्यर्थप्रशं पण्डितं तं च
धिग् धिक् ।
६३. देवदत्तश्चतुष्कृत्वोऽपि पाठं श्रुत्वा न धारयति, विष्णुमित्रस्तु
सकृच्छृणोति चिरं च धारयति ।
६४. इमे कुरव इमे कौरवा इमे च कौरव्याः । को विशेषः ।
५८. पूर्वं बहुव्रीहिस्ततस्तरप् प्रत्यय इत्यल्पाचतरमित्येव साधु । अत्र
भाष्यम् - पूर्वपदातिशये प्रातिशायिकाद् बहुव्रीहिः, सूक्ष्मवस्त्र-
तराद्यर्थः । प्रपञ्चितोऽयं विषयो वाग्व्यवहारादर्शे समासविवे-
चनायाम् इति तत्रैव द्रष्टव्यः ।
५९. घरूपकल्पेत्यादिना ङ्यन्तानेकाचो ह्रस्वत्वे सुन्दरितरेत्येव साधु ।
६०. चक्षुषा गृहीतश्चाक्षुषः । शैषिकोऽण् । चक्षुषे हिमिति तस्मै हित-
मिति यति चक्षुष्य इति भवति । तत: स्वार्थेऽणि चाक्षुष्य इति
साधु स्यात् ।
६१. कषायेण रक्तौ काषायौ । हरिद्रया रक्तौ हारिद्रौ । काषायाविव
काषायौ । हारिद्राविव हारिद्रावित्युपमानाद् भविष्यति ।
६२. जोविकार्थे चापण्य इति पण्यपर्युदासात्कनो लुब्न तेन रामस्य
प्रतिकृतिरित्यर्थे रामक इत्येव साधु । एवं लक्ष्मणादिषु द्रष्ट-
व्यम् ।
६३. द्वित्रिचतुर्भ्य: सुच् इति सुच् संख्यायाः क्रियाभ्यावृत्तिगणन
इत्यनेन विहितस्य कृत्वसुचोऽपवादः । तेन चतुरपि पाठं श्रुत्वेति
वक्तव्यम् ।
६४. कुरुनादिभ्यो ण्य (४।१।१७२) इति कुरुशब्दादपत्ये ण्ये कौरव्यः ।
क्षत्रियवचनोऽयं कुरुशब्दः । ण्यस्य तद्राजत्वात्तद्राजस्य बहुषु
तेनैवास्त्रियामिति बहुष लुकि सति कुरोरपत्यं बहुलमिति कुरवः ।