पृष्ठम्:शब्दापशब्दविवेकः.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६२ शाब्दापशब्दविवेके


५१. लक्ष्मणो मेऽनुजोऽपूर्वी, भार्यया चार्थीति रामेण शूर्पणखोक्ता । ५२. ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति । ५३. गते समरे परश्शताः प्रवीरा: सर्वदार्थं वीरशय्यामध्यशेरत । ५४. यद्यपि नास्ति सत्यात्परो धर्म इति नित्यं कर्णकुहरी कुर्मस्तथापि नानृतं परिहरामः । ५५. सोऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः (वेणी०३।४७)। ५६. जरासन्धो नाम मगधस्य महाबलो भूपो बभूव । ५७. सार्वभौमिका इम आचारा:, यस्मान्नैते देशविशेषावच्छेदेनोपल- भ्यन्ते । वक्तव्य इति ङीष्विकल्पे प्रथमं रूपद्वयम् । तत्सर्वादेः पथ्यङ्गकर्म- पत्रपात्रं व्याप्नोतीति खे तृतीयं रूपं साधु । ५१. पूर्वादिनिरिति पूर्वशब्दात् क्रियाविशेषणादिनिः । यां काञ्चि- त्क्रियामध्याहृत्य प्रत्ययो विधीयते । पूर्व परिणीतमनेनेति पूर्वी । ५२. ब्राह्मणमारणववाडवाद्यन् इति समूहे यन् । ब्राह्मणानां समूहो ब्राह्मण्यम् । ब्रह्मणि साधुरिति ब्रह्मण्यः । तत्र साधुरिति यत् । ५३. सर्वदार्थमित्यपशब्दः । सर्वदाशब्दोऽधिकरणप्रधानः । तस्यार्थ- शब्देन समासोऽनुपपन्नः । सर्वकालमिति समासवृत्त्या वक्तव्यम् । ५४. कर्णकुहरे कुर्म इत्येव साधु । दुर्लभोऽत्र च्विः । हेतुस्त्वसकृदुक्त- पूर्वः । ५५. कुरुनादिभ्यो ण्य इति ण्ये, तस्य तद्राजसंज्ञत्वात्तद्राजस्य बहुषु तेनैवास्त्रियामिति लुकि कुरव इत्येव साधु । कुरोरिमे इति तस्येदमित्यणि तु न कश्चिद्दोषः । ५६. मगधस्य नाम राज्ञोऽपत्यं मागधः । बहुत्वविवक्षायां मगधाः । द्व्यञ्मगधकलिङ्गसूरमसादण् इति विहितस्याणो बहुषु लुकि मगधा इति रूपम् । मगधानां (क्षत्रियाणां) निवासो जनपदो मगधाः । तस्य निवास इत्युत्पन्नस्याणो जनपदे लुप् इति लुपि, लुपि युक्तवद्भावे मगघा इति देशाभिधानं साधु भवति । तस्य षष्ठयां मगधानामिति वक्तव्यम् । ५७. सार्वभौमा इत्येव साधु । तत्र विदित इति चेत्यण् (५।१।४३) ।१- पूर्वं परिणीतमनेनेति पूर्वी, स न भवतीत्यपूर्वी ।