पृष्ठम्:शब्दापशब्दविवेकः.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तद्धितपरिशेषः २६१


४४. प्रधानं षट्स्वङ्गेषु व्याकरणमिति भाष्यकारवचनमवमत्य कि- मिति ज्योतिषमधीषे न व्याकरणम् ? ४५. अहो वाग्मिनां वाग्धाराः किमपि संवननं१ हृदयानाम् । ४६. अत्र विषय उपेक्षां तूष्णीकां वा युक्तां पश्यामः । ४७. अद्यतो नैकवर्षे दुरन्तोऽयमुदन्तोऽजायत । ४८. प्राचीनसामयिका इममेव क्रममातस्थुः । ४९. सेवा श्ववृत्तिराख्याता, तीव्रश्चैष मानस्योपरित आघातः । ५०. सर्वाङ्गिण्याः संस्कृतेरुद्धार इष्यते न तु तदेकदेशस्य । ४४. तदधिकृत्य कृते ग्रन्थे इत्यण् । संज्ञापूर्वकविधेरनित्यत्वान्न वृद्धिः । तेन ज्योतिषम् इति साधु । ४५. वाचो ग्मिनिः लशक्वतद्धित इतीत्संज्ञाभावाद् गकारद्वय- श्रवणम् । वाग्मिनामित्येव साधु । ४६. तूष्णीमः काम् वक्तव्यः । इति स्वार्थिकः काम्प्रत्ययः । तूष्णीमेव तूष्णीकाम् । तेन तूष्णीम्भावं युक्तं पश्याम इति वक्तव्यम् । तूष्णीकामित्यव्ययम् । ४७. अद्य प्रभृति, इत इति वा वक्तव्यम् । अद्येत्यधिकरकरणवृत्ति । ततस्तसेरप्रसङ्गः । स ह्यपादानपञ्चम्या विहितः । आद्यादि- त्वात्तसेरपि नायं बिषयः । ४८. प्राचीनसामयिका इत्यत्र ठञ् दुर्लभः । कालवाचिभ्यः स विहितः । तेन प्राचीनसमयिका इति वक्तव्यम् । प्राचीन समयोऽस्त्येषा- मिति । अत इनिठनाविति ठन् । समासेन वाऽर्थो वक्तव्यः । प्राक्काला इति । एवं जातीयकेषु प्रदेशेषु ठनेव प्रयोज्यो न ठञ् । तथा च मनौ प्रयोगः-तान्यर्वाक्कालिकतया निष्फलान्य- नृतानि चेति (१२।९९) । ४९. उपरित इत्यपशब्दः । उपर्युपरिष्टात् (५।३।३१) इत्युपरिशब्दो- ऽस्तातेरर्थे निपात्यते । प्रस्तातिश्व सप्तमीपञ्चमीप्रथमान्तेभ्यो विधीयत इति सप्तम्यर्थस्योपरिशब्देनैवोक्तत्वात्तसेरप्रसङ्गः । ५०. सर्वाङ्गाया सर्वाङ्ग्या इति वा सर्वाङ्गीणाया इति वा वक्तव्यम् । सर्वाण्यङ्गान्यस्या इति बहुव्रीहौ अङ्गगात्रकण्ठेभ्यो वा ङीष्१. वशीकरणम् ।