पृष्ठम्:शब्दापशब्दविवेकः.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६० शब्दापशब्दविवेके


३८. गुरुचरणानामभिमुखीनः स्थित्वाऽञ्जलिं च बद्ध्वा शास्त्रमाग- मय । ३९. अद्य सुतरां सुस्था भवन्त इति हार्दिको नः परितोष: । ४०. कर्मकराणामिमाः कदर्थना यामीर्यातना अप्यतिशेरते । ४१. नाहमस्यान्तरीयमभिप्रायं वेद । न चायं स्वयं निर्वक्ति । ४२. प्रसिद्धा हि पुराणेषु दैवासुर१ कथाः । ४३. कतमो भवतां देवदत्तः ? स्य पर्यायाणां च न ग्रहणमिति पदमर्यादिषु दर्शनात् । कलि- कृतमिति चेद्विवक्षितं सर्वत्राग्निकलिभ्यां ढग्वक्तव्य इति ढकि कालेयमित्येव साधु । ३८. अभिमुखमित्येव शब्द: । अभिमुखीन इत्यपशब्दः । खप्रत्ययस्या- प्रसक्तेः । ३९. हृदयशब्दाद् अध्यात्मादित्वाट्ठञि कृते हार्दिक इति न सिध्यति । हृदयस्य हृल्लेखयदण् लासेष्विति (६।३।५०) यदणोर्हृदादेशो विधीयते न तु ठञि । तेन हार्दिक इत्यागन्तुकोऽसम्प्रदायः शब्द सुधियां नादरणीयः । हार्द इति तु परिग्राह्यः । तमो हार्द निवार- यन्निति सायणभाष्ये प्रयोगात् । ४०. यमाच्चेति वक्तव्यमिति काशिकापठिताद् वार्तिकाद् ण्यप्रत्यये याम्या इत्येव साधु । ४१. अन्तरे भवम् आन्तरमित्येव साधु । शैषिकोऽण् । वृद्धत्वा- भावाच्छो न । गहादित्वकल्पनेऽपि नात्रार्थेऽस्य प्रयोगः प्रकल्पते, परिधानेऽर्थे रूढेः । ४२. द्वन्द्वान्वन्वैरमैथुनिकयोरिति वुन्प्रसक्तः, वैरे देवासुरादिभ्यः प्रति- षेधो वक्तव्य इति प्रतिषिध्यते । तेन प्राग्दीव्यतीयेऽणि देवासुर- मिति साधु । देवानामसुराणां च वैरं देवासुरम् । ४३. वा बहूनां जातिपरिप्रश्ने डतमच् इति डतमजिह न प्राप्नोति । देवदत्तस्याजातित्वात् । तेन को भवतां देवदत्त इत्येव साध्विति मन्यते । नैतदस्ति । कतरकतमौ जातिपरिप्रश्ने (२।१।६३) इत्यत्र जातिपरिप्रश्नग्रहणं ज्ञापयति कतमशब्दोऽन्यत्रापि जातेर्वर्तते इति । तेन नात्र काचिद् दुष्टिः ।१. देवानामसुराणां च वैरं देवासुरम् ।