तद्धितपरिशेषः २५९
३२. इह पाठालये नवतम्यां श्रेण्यां पञ्चचत्वारिंशच्छात्रा: संस्कृतम-
धीयते ।
३३. विविधा हि व्यापारा भवन्ति-केचिन्मानसाः, केचिन्मौखा: परे
हास्ताः, अपरे पादाः ।
३४. एवं सति पारस्परिकीः काश्चिद् हानीविभावयन्ति सुधियः ।
३५. यदितो वत्सराणां पञ्चसाह स्रयामभूत् तद् इदानीमपि पश्यामो-
रूप१ मिति स प्रसादो भगवतो व्यासस्य ।
३६. प्रायेण मध्यकालिका अनृषिप्रणीता ग्रन्थाः शब्दडम्बरभूयिष्ठा
इति न तेषु बहु ग्राह्यं भवति ।
३७. इदं नाम कालिकं वैचित्र्यं या खलु संस्कृतिः पुराणैर्मुनिभिः
प्राणपणेनापि संरक्षिता सेदानीं तदनुगैरनास्थया वेत्रदण्डैरिव
समुत्सार्यते ।
३२. तस्य पूरणे डटि नवम्यामित्येव साधु ।
३३. मानसा मौखा हास्ता इत्यत्र शैषिकोऽण । पादशब्दात्तु वृद्धाच्छः
प्रसक्तः । तेन पादीया इति स्यात् । तस्य च प्रयोगो नास्तीति
पादाभ्यां कृता इति व्यासेन वक्तव्यम् । पादकृता इति समासेन
वा ।
३४. परम्परीणा इत्येव साधु । परोवरपरम्परपुत्त्रपौत्रमनुभवतीति
खप्रत्ययः । पारम्परिकमिति परम्पराशब्दादव्युत्पन्नात्प्रबन्धवच-
नादध्यात्मादित्वाट्ठञि सिध्यति । प्रयोगोऽस्य नास्तीति साधुत्वं
दुरवधारम् ।
३५. प्रशंसायां रूपप् (५।३।६६) । साधीयः पश्याम इत्यर्थः । रूपप्
तिङन्तादपि भवति । पश्यामोरूपमित्येकं पदम् ।
३६. माध्यमकालिका इत्येव साधु । मध्यान्मः । कालाढज् । आदि-
वृद्धिः ।
३७. कालेन निर्वृत्तम् इत्यर्थे तेन निर्वृत्तम् (१।७६) इति ठञ्
नार्हति भवितुम् । न ह्यसौ स्वरूपविधिर्भवति । कालात् (५॥१॥
७८) इत्यधिकारः । तेन कालकृतमित्येवं वाच्यम् । न च काला-
ट्ठञिति शैषिकेण ठञा शक्यं व्युत्पादयितुमिति वाच्यम् । स्वरूप-१. साधु पश्यामः, यथा स्पष्टावभासो भवति तथा पश्याम इत्यर्थः ।