२५८ शब्दापशब्दविवेके
२५. उपाद्यमः स्वकरणे (अष्टाध्याय्याम् १।३।५६) ।
२६. न हि रजोवीर्यसंयोगमात्रेण ब्राह्मणं शरीरमुत्पद्यते ।
२७. प्राङ् निशातो वासरो वासराच्च प्राङ् निशेत्यनादिरेष प्रवाहः ।
२८. याज्ञवल्कानीमानि ब्राह्मणानि वेदसमसामयिकानि न भवन्ति ।
२९. युष्माभिस्तेषामेकतरेण सह वञ्चकैरिव व्यवहृतम् ।
३०. चौररूपो१ऽयं यदक्ष्णोरप्यञ्जनमपहरति ।
३१. वरदः करोतु सुप्रातमह्नामयं हि नायकः ।
२५. महाविभाषया च्वरेभाव इत्यदोषः ।
२६. ब्रह्मरण इदं ब्राह्मम् । ब्राह्मोऽजाताविति योगो विभज्यते। ब्राह्म
इत्यनपत्येऽणि टिलोपार्थं निपात्यते । ततो जातौ । अपत्ये जाता-
वणि टिलोपो न भवति । ब्रह्मणोऽपत्यं जातिर्ब्राह्मणः ।
२७. प्रागिति दिक्छब्द: । दिक्छब्दयोगे विहिता पञ्चम्यपादान-
पञ्चमी न भवतीत्यपादाने चाहीयरुहोरित्यनेन तसेरादेशस्या-
योगात्प्राङ् निशाया इत्येव साधु । सार्वविभक्तिको वा तसि-
र्वेदनीयः ।
२८. याज्ञवल्क्येन प्रोक्तानि ब्राह्मणानि याज्ञवल्कानि । कण्वादिभ्यो
गोत्र इत्यण् । कण्वादिसर्गाद्यन्तर्गणः । याज्ञवल्क्यादिभ्यः प्रति-
षेधस्तुल्यकालत्वाद् इति पुराणप्रोक्तेषु ब्राह्मणपकल्पेष्वितिणि-
निर्न । तद्विषयताऽपि न । प्रतिपदं ब्राह्मणेषु यः प्रत्ययस्तस्य
तद्विषयता विधीयते णिनेः ।
२९. एकाच्च प्राचामित्येकशब्दाद्वयोनिर्धारणे डतरच्, बहूनां
निर्धारणे डतमच् विहितौ । तेनात्रकतमेनेति साधु ।
३०. प्रशस्तश्चौरः चौररूपः । प्रशंसायां रूपप् । प्रकृत्यर्थस्य परिपूर्ण-
तेह प्रशंसा न तु स्तुतिः । गुप्तवस्त्वपहरणेन चौर्यं परिपूर्यते ।
३१. सुप्रातसुश्वेत्यादयः (५।४।१२०) बहुव्रीहिसमासेऽच्प्रत्ययान्ता
निपात्यन्ते । शोभनं प्रातरस्येति सुप्रातः । तेन प्रकृते तत्पुरुषे
प्रयोगश्चिन्त्यः।१. प्रशस्तश्चौरः, चौर्ये कुशलः ।