पृष्ठम्:शब्दापशब्दविवेकः.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तद्धितपदिमेषः


१७. पादशो गायत्रीं शंसति न चान्यथोच्चारयति पदानि । १८. इयं शस्त्रीकल्पा । शक्यमनयाऽपि मांसशकलं कर्तितम् । १९. उभे अपि भगिन्यौ विदुष्यौ, तथाऽपि कनीयसी विदुषीतरा । २०. योऽधर्मं चरति सोऽधार्मिक इत्यज्ञवद्वचनम् । २१. आसुतिवलो ह्यभोज्यान्न इति स्मरन्त्यृषयः । २२. क्रोडीकरोति प्रथमं यथा जातमनित्यता । धात्रीव जननी पश्चात् तदा शोकस्य क: क्रमः (नागानन्दे) ।। २३ अस्ति मे त्रिवार्षिकं धान्यं तेन भविष्यदर्थचिन्ता न बाधते माम् । २४. अनन्ता वै वेदा इति प्रवादमसंख्यधा वेदा इत्येवमर्थापयन्ति ।। १७. ऋचः शे (६।३।५५) इति पादशब्दस्य पद् इत्यादेशे पच्छ इति रूपम् । १८. ईषदूना शस्त्री शस्त्रिकल्पेति साधु । घरूपकल्पचेलड् इत्यादिना कल्पप् प्रत्यये ङ्यन्तस्यानेकाचः शस्त्रीशब्दस्य ह्रस्वो विधीयते । १९. विदुषीतरा, विदुषितरा, विद्वत्तरेति रूपत्रयमपि साध्विति वृत्ति- कारो मन्यते । कौमुदीकारस्तु उगितश्चेति ह्रस्वाभावपक्षे तसि- लादिष्विति पुंवद्भावो दुर्वार इति विदुषीतरेति रूपं निरा- करोति । न हि स्वयमप्रवर्तमानं हस्वत्वं पुंवद्धावं बाधत इति न्याय्यम् इति । २०. अधर्माच्चेति वक्तव्याद् आधर्मिक इत्येव साधु । अधार्मिक इति तु नञ्समासे साधु । न धार्मिकोऽधार्मिकः । २१. वले इत्यासुतीवल इत्येव साधु । आसुतीवलः शौण्डिकः । २२. इदं नागानन्दनाटके चतुर्थेऽङ्के शङ्खचूडस्य वचनम् । क्रोडी करोतीत्यत्र च्विर्दुर्लभः । सम्पद्यकर्तरि स उक्तः । कारकान्तर- सम्पत्तौ न भवति । क्रोडे करोतीत्येव साधु । यदि क्रोडशब्दः क्रोडस्थमाह लक्षणया तर्हि न कश्चिद्दोषः । २३. वर्षस्याभविष्यतीति भविष्यत्युत्तरपदवृद्धेः प्रतिषेधादादिवृद्धौ त्रैवर्षिकमित्येव साधु । २४. असंख्या इत्येव वक्तव्यम् । धाप्रत्ययस्याप्रसङ्गात् । धाप्रत्ययो हि संख्याया विधार्थे धा, विभाषा बहोर्धाऽविप्रकृष्टकाले इति सूत्राभ्यां विधीयते । इह च संख्यावचनो नास्ति न वा बहुशब्दोऽस्ति । १. अर्थमाचक्षते, व्याचक्षते