२६८ शब्दापशब्दविवेके
९०. ततो यथावद् विहिताध्वराय (रघु० ५।१८) ।
९१. द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः
(वर्षस्याभविष्यति ७।३।१६ इत्यत्र दीक्षितः) ।
९२. अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वरा:(मनु० १२।१०३) ।
९३. द्वे षष्टी जीवितपरिमणमस्येति द्विषाष्टिकः ।
९०. यथाशब्दस्यासत्त्वार्थकत्वात्कर्मत्वायोगात्तदर्हम् इत्यनेन वति-
र्दुर्लभ गति चेत् --अत्राहु:-यथाशब्दो वृत्तिविषये सत्त्वार्थकः,
'यथात्वमित्यादिषु त्वतलादिदर्शनात् । अन्यथा षष्ठ्यपि नास्तीति
त्वतलौ न स्याताम् ।
९१. द्विवार्षिको मनुष्य इति दीक्षितप्रयोगश्चिन्त्यः । चित्तवति नित्य-
इति ठञो लुकि द्विवर्ष इत्येव भवितव्यम् । मनुष्यसदृशः प्रति-
मादिरत्र मनुष्यशब्देनाभिप्रेत इति स्थितस्य गतिः कथंचिच्चि-
न्तनीयेति तत्त्वबोधिनीकारः । एवं समादधत्तत्त्वबोधिनीकारो
नेक्षते नहि प्रतिमाऽधीष्टा भृता वा भवतीति । एवं स्थिते वर्ष-
स्याभविष्यति इत्त्युत्तरपदवृद्धिप्रतिषेधादत्र भविष्यदर्थे वृद्धिः
कुतः । अस्थाने शङ्कितं ते । अधीष्टभृतयोरभविष्यतीति प्रति-
षेधो न । गम्यते हि तत्र भविष्यत्ता न तु तद्धितार्थः । इति वृद्धि-
प्रतिषेधाभावस्तु निपुणमुपपादितो भवति ।
९२. द्विवचनविभज्योपपदे इति विभज्येषु ग्रन्थिषूपपदेष्वतिशायन
ईयसुन्विधीयते तेन श्रेयांस इतीष्यते ।
९३. द्वे षष्टी जीवितपरिमारणमस्य द्विषाष्टिक इति साधु । तदस्य
परिमारणम् (५।११५७) । अत्र सूत्रे समर्थविभक्तिः प्रत्ययार्थश्च
सोऽस्यांशवस्नभृतय इति पूर्वसूत्रादेवानुवर्तिष्यते । किमर्थं पुन-
र्विधानम् । पुनर्विधानसामर्थ्यादध्यपूर्वद्विगोर्लुङ् न भवति ।
अयमर्थः-पूर्वसूत्रात्समर्थविभक्तेः प्रत्ययार्थस्य चानुवृत्तेः प्रथम
यः प्रत्ययो विधीयते तस्याध्यर्धपूर्व गिोर्लुग इत्यनेन लुग्विधीयते
न पुनर्य इह सूत्रे समर्थविभक्तेः प्रत्ययार्थस्य चोपादानात्पुनर्विधी-
यते तस्यापि । तथा सति पुनर्विधानमनर्थकं स्यात् ।