पृष्ठम्:शब्दापशब्दविवेकः.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तद्धितपरिशेषः २५५


४. कस्मादिमे लोका अत्रैकत्रीभूताः ? ५. अशीतिवर्षीयोऽयं वृद्धो न क्षमत आत्मानमालम्बितुम् । ६. अद्यश्वीनमिदं कलेवरम् । यावदिदं कल्यं१ तावदर्जय गुणान् ७. पितृवत्स्थूलः पुत्त्रस्तथापि बलवत्तरः । ८. वेणुमयीयं यष्टि: । इयं भारस्यासहा ।

४. एकत्र भूता इत्येव । समवेता इति वा वक्तव्यम् । सम्पद्यकर्तरी- त्युक्तम् । कारकान्तरसम्पत्तौ मा भूत् । तेन च्विरत्र दुर्लभः । अनेकत्र एकत्र भवन्तीत्यत्राधेयविशेष-सम्बन्धेनाभूततद्भावः सत्त्वाधिकरणस्य न कर्तुः । ५. अशीतिर्वर्षाणि वयःप्रमाणमस्येति अशीतिवर्षः । प्रमाणे लः । द्विगोर्नित्यम् इति मात्रचो लुक इत्येवं केचिद् व्युत्पादयन्ति । तद- परे न सहन्ते । अत्र प्रमाणशब्देन प्रमाणत्वेन ये प्रसिद्धा दिष्ट्या- दयस्ते गृह्यन्ते । द्वे दिष्टी प्रमाणमस्येति द्विदिष्टि । तेन अशीतिं वर्षाणि भूत इति विगृह्य तमधीष्टो भृतो भूतो भावीति भूतेर्थे कालाट्ठञि चित्तवति नित्यमिति तस्य लुकि अशीतिवर्ष इत्येव साधु । ६. अद्यश्वीनावष्टब्धे (५।२।१३)। अत्रावष्टब्धे विजने आसन्ने प्रसवेऽद्यश्वीना इति निपात्यते । अद्यश्वीना गौः। अद्यश्वीना वडवा । अद्य वा श्वो वा विजायत इत्यर्थः । केचिदत्र पूर्वसूत्राद् विजायत इति नानुवर्तयन्ति, अवष्टब्धमात्रे निपातनमित्याहुः । अद्यश्वीनं मरणम् । अद्यश्वीनो वियोग इति । प्रकृते आसन्न- पातमित्यर्थो विवक्षितः । तमद्यश्वीनशब्दः केवलो नार्पयती त्य- स्थाने तत्प्रयोगः । ७. वतिः क्रियातौल्ये विहितः । तेनेह पित्रा सह स्थूलः, पित्रा तुल्यः स्थूल इति वा वक्तव्यम् । ८. बिल्वादिभ्योऽणि वैणवीति भवति । मयड् विकल्पे वेणुमयीत्यपि साधुः । छन्दसि तु नोत्त्ववद्वर्ध्रबिल्वात् इति मयटो निषेधे वैणवीत्येव ।१. नीरोगम् ।