शैषिकास्तद्धिता: २५३
६०. शारदीयशशिभासो रम्यमुपवनं रम्यतरं सम्पादयन्ति ।
६१. केचिदस्थान एव सौवं१ महिमानमुत्कीर्तयन्ति ।
६२. पुत्त्रेण सा तव सेना पाण्डवी मथिता रणे (भा० द्रोण० १५३।
१९) ।
६३. इदं नव्यमिदं च पूर्व्यमिति विविच्य यदुपकारकं तद् गृहाण ।
६४. प्राज्यं राज्यविभूतिवैभवसुखं मैत्रं प्रपेदे पि सः ( के० दि०
सा० १।१६)
६५. इतः पूर्वतनान्यदसीयानि संस्करणान्यपेक्ष्य संस्करणेऽस्मिन्
भूयसी च्छात्राणामुपकृतिरिति निश्चप्रचम् ।
६६. वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः (मनु० १०।९७) ।
६७. क्व च त्वं पञ्चवर्षीयः क्व चैतद् दारुणं तपः (वि० पु० ५।१२।
१७) ।
६०. सन्धिवेलाद्यृतुनक्षत्रेभ्योऽणि शारदशब्दः साधुः । ततः परस्य
छस्याप्रसङ्गात् ।
६१. स्वस्येदं सौवम् । द्वारादीनां यकारवकाराभ्यामुत्तरस्याचामा-
देरचो वृद्धिप्रतिषेधे वकारात्पूर्वमौकारागमे च सिद्धम् । प्रयोगस्तु
दुर्लभः ।
६२. पाण्डवानामियमिति विग्रहे वृद्धाच्छे पाण्डवीयेत्येव युक्तम् ।
क्वचिदुत्सर्गोप्यपवादविषयमभिनिविशत इत्यौत्सर्गिकेऽणि वा
साधु ।
६३. पूर्वशब्दाद्यद् दुर्लभः । पुराणमिति तु प्रयोज्यम् ।
६४. पैत्रमित्यपशब्दः। पितुरागतं पित्र्यं पैतृकं वा भवति यति ठकि
चेत्यवधेयम्।
६५. पूर्वतनानीत्यत्र ट्युट्युलौ दुर्लभौ। अव्ययात्तद्विधेः । पूर्वशब्द-
श्चानव्ययम् । तेन पूर्वाणि पूर्वभवानीति वा व्यवहरणीयम् ।
६६. पारक्य इत्यसाध्यं पाणिनीयानाम् । स्वच्छन्दवाचो महर्षयो
नियोगपर्यनुयोगानर्हाः ।
६७. तमधीष्टो भृतो भूतो भावीति सूत्रेण समुत्पन्नस्य ठञो वर्षशब्दा-
न्ताद् द्विगोश्चित्तवति नित्यमिति लुकि पञ्चवर्ष इति रूपम् ।
छप्रत्ययस्य तु स्वप्नेऽपि प्रसङ्गो न । तथाप्युत्स्वप्नायन्ते पौराणं
वचो नुकुर्वन्तः साम्प्रतिका अनल्पाः ।३. स्वस्यायं सौवः तम् ।