पृष्ठम्:शब्दापशब्दविवेकः.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५२ शब्दापशब्दविवेके


५१. देशान्तरेषु भूयांसि दैनिकानि द्विदैनिकानि च वार्तापत्राणि प्रकाश्यन्ते । ५२. किमीयमिदं पुरस्तनं गेहम् । विशेषयतीदं गृहान्तराणि रामणी- यकेन । ५३. मानवीषु वृत्तिषु परदुःखदलनाभिलाषः परं प्रशस्यः । ५४. श्रावण इति प्रथमो वार्षिको मासः । ५५. प्रातरेव स कृपणो मम चाक्षुषो जातः । ५६. वाराणसीयानां परीक्षाणां का त्वयोत्तीर्णा ? ५७. न केवलमस्य नियुद्धे कौशलमनितरसाधरणं स्नायविकी शक्ति- रपीतरान्विशेषयति । ५८. वर्तमानेयं जागतिकी दशा दृढमुद्वेजयति नः । ५९. नूनमुन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये (कु० ८।५८)। तीति चेन्मैवम् । अप्रयोगात् । नहि स्वर्गीय इति स्वर्गतार्थे प्रयुक्त- पूर्वः । बाढं ये च स्वर्गस्थास्ते स्वर्गिण इत्युच्यन्ते । ५१. दिनस्य द्विः प्रकाश्यन्त इत्येव शोभनं वचः । नात्र तद्धितवृत्ति समाश्रयेणाभूतपूर्वं शब्दरूपमुत्पाद्यम् । दिने भवानि दैनिकानि । कालाट्ठञ् । ५२. दक्षिणापश्चात् पुरसस्त्यक इति त्यकि पौरस्त्यमित्येव साधु । ५३. मानवशब्दाद् वृद्धाच्छप्रत्यये मानवीयासु इत्येव साधु । ५४. वर्षाभ्यष्ठक् इति वार्षिक इति साधु । वर्षासु भव इति विग्रहः । ५५. चक्षुर्भ्यां गृह्यत इति चाक्षुषः । शेष इत्यण् । ५६. नद्यादिभ्यो ढकि वाराणसेयानामिति साधु । ५७. अध्यात्मादित्वानि इसुसुक्तान्तात्क (७।३।५१) इति ठस्य कादेशे स्नायुकीत्येव साधु । ५८. जगत इयं जागती । शैषिकोऽण् । तेन जागतिकीति प्रामादि- कमेवेति प्रामाणिकाः । ५६. शार्वरिकमित्येव साधु । कालाट्ठञ् । शार्वरमिति तु प्रामादिक- मेवेति प्रामाणिकाः।