पृष्ठम्:शब्दापशब्दविवेकः.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शषिकास्तद्धिताः २५१


४३. न वयं धार्मिकेषु न: कृत्येषु मानुषीं चोदनामाद्रियामहे । ४४. पूर्वबङ्गषु बङ्गवाचमभिरोचयति जनता न तूर्दुम् । ४५. सुगतः किल तत्कालीनया पालीति विश्रुतया भाषया लोकान् धर्ममनुशशास । ४६. आयोध्यकं संस्कृतपत्त्रमपभ्रंशबहुलमिति न विदुषां समादरणीयं भवति । ४७. गतवर्षीये सभाधिवेशनेऽयमर्थो वितत्य विचारितोऽभूदिति नायं पुनर्विचार्यः । ४८. विधर्मीयैर्मौहम्मदादिभिर्हिन्दुधर्मिषु न साधु व्यवह्रियत इति खेदः । ४९. यदि त आन्योन्यं कलहं विहाय संवसेयुस्तदा सुखं जीवेयुः । ५०. स्वर्गीयः श्रीरमाकान्तो यावज्जीवमन्नार्थिभ्योऽन्नमदात् स्वपोषं च दरिद्रानपुषत् । ४३. संस्कृते धार्मिकशब्दो धर्मं चरतीत्यर्थ एव रूढः । अन्यत्र प्रयोगा- दर्शनात् । ४४. बङ्गानां निवासो जनपदो बङ्गाः । पूर्वे च ते बङ्गाश्च पूर्व- बङ्गाः । निर्दुष्टं वचः । ४५. तात्कालिक्येति साधु । उक्तो हेतुः । ४६. धन्वयोपधाद्वुञ् इत्यायोध्यकमिति साधु । अयोध्यायां जातं भवं वेत्यर्थः । ४७. गातवर्षिक इत्येव साधु । कालाट्ठञ् । आदिवृद्धिः । ४८. विरुद्धो धर्मो येषां ते विधर्माण इत्येव वक्तव्यम् । अनिच्समा- सान्तः । तद्धितवृत्त्या नार्थः । धर्मशीलवर्णान्ताच्चेति मत्वर्थीयेन इनिना हिन्दुधर्मिण इति साधु । हिन्दूनां धर्मो हिन्दुधर्मः, स एषामस्तीति हिन्दधर्मिणः । तैः हिन्दुधर्मिभिः । ४६. अन्योन्यमित्येव साधु । तस्येदिमित्यणि आन्योन्यमित्यस्य सिद्धि- संभवेऽपि नेदं प्रयुक्तपूर्वमिति परिहार्यम् । ५०. स्वर्गत इत्येव साधु । ननु स्वर्ग इति देशविशेषस्य संज्ञेति वा नामधेयस्य वृद्धसंज्ञा वक्तव्येति वृद्धाच्छे स्वर्गीय इति सिध्य-१. स्वे पुष इति णमुल् । स्वशब्दो धनवचनः ।