पृष्ठम्:शब्दापशब्दविवेकः.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५० शब्दापशब्दविवेके


३६. शारीरिकसूत्रैर्जीवब्रह्मणोर्भेदः प्रतिपाद्यत इति दर्शनं नः । ३७. अद्यतनीनो वाचि वेषे चाडम्बरः केवलं विडम्बनैव१ । ३८. इदं गतवर्षिकस्याधिवेशनस्य विवरणं शृणुत । ३९. अस्य निकेतस्य पूर्व्यः प्रदेशोऽभिरामतर: पश्चिमादिति मे मतम् । पञ्चापदेशे सरहन्दपुरेऽस्त्यै तिहासिकः प्राकारो यं दिदृक्षवः प्रत्यब्दमुपनमन्ति शतशो भक्तिमन्तो नराः । ४१. चीनदेशस्य मध्यो भागः प्रायेण नदीमातृकः । ४२ पारस्परिकः प्रेमा यथान्तभेदं चिकित्सति न तथेतरत्किञ्चित् । ३६. कुत्सितं शरीरं शरीरकम् । तत्सम्बन्धी शारीरको जीवात्मा । तमधिकृत्य कृतानि सूत्राणि शारीरकीयाणीति वाच्यानि स्युः । अधिकृत्य कृते ग्रन्थे इति वृद्धत्वाच्छप्रत्ययप्रसङ्गात् । शारीरक- मिति त्वभेदोपचारात् । ३७. अद्यतन इत्येव साधु । खप्रत्ययाप्रसक्तेः । ३८. गतं च तद्वर्षं चेति गतवर्षम् । तत्र भवम् गातवर्षिकमिति युज्यते । कालाट्ठञ् । वर्षस्थाभविष्यतीत्युत्तरपदवृद्धेरप्रसङ्गः। संख्याया उत्तरस्य वर्षशब्दस्याभावात् । वस्तुतो गातवर्षिकमित्यपि न प्रसिध्यति, तद्धि तद्धितप्रियः कल्प्यतेऽधुनातनः। गतवर्षभवस्ये- त्यादिस्तु श्रेयान्प्रयोगः श्रेयः । ३९. पूर्वैः कृतमिनयौ चेति (४।४।१३३) यप्रत्यये पूर्व्य इति च्छन्दसि साधु । पूर्वैः कृतः पूर्व्य इति च विग्रहः । भाषायां तु नायं शब्द: प्रयुज्यते । तेन पूर्व इत्येव साधु । ४०. आख्यानाख्यायिकेतिहासपुराणेभ्यष्ठग्वक्तव्य इति ठकि ऐति- हासिक इति सिध्यति । इतिहासमधीते वेद वेत्यर्थः । अत्रैवार्थे ऽस्य प्रयोगो दृश्यते न त्वितिहासे प्रसिद्ध इत्यर्थे; इतिहासे भव इत्यर्थे वा । तेनाध्यात्मादित्वं न कल्पनीयम् । ४१. मध्यान्म इति मध्ये भवो मध्यम इत्येव साधु । साम्प्रतिके न्याय्य एव मध्यात् अ साम्प्रतिके (४।३।९) इत्यप्रत्यये मध्यो वैयाकरण: (नात्युत्कृष्टो नाप्यत्यपकृष्टः) मध्यं काष्ठमित्यादिकं भवति । ४२. परस्परं भवः पारस्परिक इत्यध्यात्मादित्वाद् ठञि शक्यव्युत्पत्ति- कमप्यप्रयुक्तपूर्वमिति नादरणीयम् । परस्परमित्येव प्रयोगार्हम् । १ 1. अनुकरणम्, अनादरः, उपहासः ।