पृष्ठम्:शब्दापशब्दविवेकः.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शैषिकास्तद्धिता: २४९


२८. इदं कौमुद्यां पौर्वार्धं सूत्रमिदं चौत्तरार्द्धम् । २९. कादयो मावसाना वर्गीया वर्णाः, शेषा अवर्ग्या: । ३०. भारं स्वकं च परकं चोद्वहन्ति । ३१. इदमावश्यकीयमिदं नेति न सहसा शक्यं विनिर्णेतुम् । ३२. अतीते दशाब्दे मनुष्यगणने बहवः स्वमतान्धाः श्रद्धाजडा अन्यथा- ऽलेखयन् स्वजनसंख्याम् । ३३. प्रायेणापूपिका वैश्या: पायसिकाश्च विप्राः । ३४. केचिदाहुर्गव्यं पयो गुणवत्तमम्, अपर आजिकमिति । ३५. बाल्यकालीनो विवाहः कुलस्य समुत्सादक इति दर्शनं नः ।

२८. दिक्पूर्वपदाट्ठञ् चेति यताऽनुवृत्तेन भवितव्यं ठञा वा । तेन पूर्वार्द्ध्यं पौर्वार्धिकमिति वा भवति । एवं चोत्तरार्द्ध्यमौत्तरा- र्द्धिकमिति वा । २६. दिगादिभ्यो यत् इति यति वार्ग्या इत्येव साधु । वर्गान्ताच्छस्य विधानात् । न वार्ग्या अवर्ग्या: । ३०. कुग्जनस्य परस्य चेति गहादिषु पठ्यते । तेन परकीयमित्येव साधु । ३१. आवश्यकशब्दाद् अर्शयादिभ्योऽच् इत्यचि आवश्यकमित्येव साधु । वृद्धत्वेऽपि च्छस्य प्रसङ्गो न । शैषिकार्थस्यासत्त्वात् । ३२. कालाट्ठञ् इति ठञि दाशाब्दिके इति वक्तव्यम् । दशसु अब्देषु भवमित्यर्थः । दशाब्दशब्दो दशाब्दान्ते वर्तते यथा मासे देयं मासिकमित्यत्र मासशब्दो मासान्ते । ३३. अचित्ताददेशकालाट्ठक् (४।३।९६) इति ठकि आपूपिकाः पाय- सिका इति च साधु । अपूपा भक्तिरस्य, पायसं भक्तिरस्येति विग्रहः । ३४. गोरिदं गव्यम् । तस्येदमित्यण्प्रसङ्गे गोपयसोर्यत् इति यत् । तेन गव्यमिति साधु । अजाया इदमाजम् । तस्येदमित्यण् । ३५. बाल्यकालिक इत्येव साधु । कालाट्ठञ् ।