पृष्ठम्:शब्दापशब्दविवेकः.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४८ शब्दापशब्दविवेके:


२०.. इयं सामुद्री नौः, इयं च नादेयी। विशेषो हि लक्ष्यते । २१. कीदृशी तत्कालिका स्थितिरार्य्याणामिति व्यक्तं न विद्मः । २२. इह भरतभुवि तास्कर्यस्य नामापि नाश्रयतेति प्राच्यमैतिह्यम् । २३. कालिङ्गसम्पराये महन्नामकदनमजनिष्ट जनानां योधानामयो- धानां चेति युद्धादुदविजिष्ट महाराजोऽशोकः । २४. सौघ्नेभ्यः पाटलिपुत्त्रका आढ्यतराः किल । २५. काश्मीरका हि प्रायेण दुर्गता अत एव कौसृतिकाः१ । २६. किं भो आङ्गोऽसि ? नाहमाङ्ग आङ्गकस्त्वस्मि । २७. इदं काश्मीरक कौशेयमुत्कृष्यते कौशेयान्तरात् । २०. धूमादिम्यश्चेत्यत्र (४।२।१२७) गणे समुद्रान्नावि मनुष्ये चेति पठितम् । तेन सामुद्रिका नौरिति वुञि रूपम् । अन्यत्र सामुद्रं जलं सामुद्रस्तरङ्ग इत्यरण् भवति । नद्यादिभ्यो ढक् (४।२।९७) इति ढकि स्त्रियां ङीपि नादेयीति साधु । २१. काश्यादिभ्यष्ठञिठावित्यत्र आपदादिपूर्वपदाकालान्तादिति पठितम् । तेन ञिठे स्त्रियां टापि तात्कालिकेति साधु । ठञि तु ङीपि तात्कालिकीति भवति । २२. द्युप्रागपागुदक्प्रतीचो यत् इत्यत्र अव्ययात्तु कालवाचिनः परत्वात् ट्युटयुलौ भवत इति वृत्तावुक्तम् । तेन प्राक्तनमित्येव साधु । प्राचि देशे प्रतीच्यां दिशि वा भवस्तु प्राच्यो भवति । २३. प्रवृद्धादपि बहुवचनविषयात् (४।२।१०५) इत्यनेन वुञि कालिङ्गक इत्येव साधु । २४. रोपधेतोः प्राचामिति वुनि पाटलिपुत्त्रका इत्येव साधु । २५. कच्छादिभ्यश्च (४।२।३३) इत्यत्र गणे कश्मीरशब्द: पठ्यते मनुष्यतत्स्थयोर्वुञ् इत्यग्रिमं सूत्रं कच्छादिभ्य एव वुञं विधत्तेऽ गोऽपवादम् । तेन प्रकृते काश्मीरका इत्येव साधु । २६. अवृद्धादपि बहुवचनविषयात् इति वुञि आङ्गक इत्येव वुञि साधु । २७. कच्छादिभ्यश्चेत्यनेनाणि काश्मीरमित्येव साधु ।१. छाद्मिकाः, अनृजवः, जिह्माः ।