शैषिकास्तद्धिताः २४७
१२. इदं सांवत्सरिकं पर्वेति नानादिग्देशेभ्यः संनिपतिता यात्रिका.
स्तीर्थेषु सिष्णासवः ।
१३. औषसेन रागेण रञ्जिताः ककुभः कामपि रमणीयतां वहन्ति ।
१४. का नाम राष्ट्रीयता । राष्ट्रे भवतां नोऽधिकारा अपि सन्ति
कृत्यान्यपीति सततं स्मरणीयम् ।
१५. इयं हि कापुरुषी गाथा । नात्र वीरैर्मनो देयम् ।
१६. पार्वतोऽ जनोयं न वेद नागरकवृत्तं विशेषत । कादाचित्क एवास्य
नगरेष्वागमः ।
१७. तत्र जन्यं रघोर्घोरं पार्वतीयैर्गणैरभूत् । (रघौ ४।७७) ।
१८. गोमहिष्यादयो ग्राम्याः पशवः, गवयादयस्त्वारण्यकाः ।
१९. राजवंश्योऽयं न तु राजा, तथापि राजवदस्य कर्माणि ।
१२. सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण् इत्यत्र संवत्सरात्फलपर्वणीरिति गण-
सूत्रम् । तेन सांवत्सरं पर्वेत्येव साधु । पर्व महोत्सवः ।
१३. कालाट्ठनि औषसिकेनेति साधु ।
१४ राष्ट्रावारपाराद्घखाविति राष्ट्रिय इत्येव रूपम् । ततो भावे
तल् ।
१५ वृद्धाच्छ इति कापुरुषात्प्रातिपदिकाच्छे कापुरुषीयेत्येव युक्तम् ।
१६ पर्वताच्चेति छप्रत्यये पर्वतीय इत्येव शोभनं वचः ।
१७ पर्वतीयानामिमे भवन्तीति पर्वतीयशब्दाच्छैषिकेऽणि पार्वतीयै-
रिति साधु ।
१८ अरण्यान्मनुष्ये (४।२।१२९) इत्यत्र पथ्यध्यायन्यायविहारमनुष्य-
हस्तिष्विति वक्तव्यादत्रारण्यशब्दाद् वुञ् न। तेनौपसंख्यानिके
णे आरण्या इत्येव साधु ।
१६ दिगादिभ्यो यत् इत्यत्र दिगादिगणे वंशशब्दः पठितो न राज-
वंशः । तेन यतोऽप्रसङ्गाद् वृद्धाच्छ इति छे राजवंशीय इत्येव
साधु । राज्ञो वंश्यो राजवंश्य इत्येवं वा विग्रहीतव्यम् ।