पृष्ठम्:शब्दापशब्दविवेकः.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४६ शब्दापशब्दविवेके


५. वासवीनां२ चमूनां कार्तिकेयः सेनानीर्बभूव । ६. अनभिज्ञोहमत्रत्यस्य प्राक्कालीनस्य वृत्तान्तस्य । ७. पार्वतीयानीमानि फलानि सुतरां स्वदन्ते नो नागरिकेभ्यः । ८. वानरी सेना जातु राक्षसीं चमूं जयेदिति केन स्वप्नेऽपि संभा- वितमासीत् । ९. पश्चात्तनैः कैश्चिद्विशेषज्ञैर्नुद्यमाना एतद्देशजाः शास्त्रेषु श्रद्धां जहति । १०. आपत्कालिकेयं रीतिरित्यभ्युपगमो विदुषाम् । ११. नैकग्रामीणमतिथिं विप्रं साङ्गतिकं १ तथा । उपस्थितं गृहे विद्यात् (मनु० ३।१०३)। ५ वासवस्येमा वासवीया इति तु न्याय्यम् । वृद्धाच्छः । वा नाम- घेयस्य वृद्धसंज्ञा वक्तव्येति त्वप्राप्तविभाषा। अत एवोदाहृतं वृत्तौ देवदत्तीयाः, देवदत्ता इति । ६. प्राक्कालिकस्येति तु युक्तम् । कालाट्ठञ् । समानकालीनं प्राक्- कालीनमित्यादयोऽपभ्रंशा एवेति प्रामाणिकाः । ७. विभाषाऽमनुष्य इति च्छे पर्वतीयानीत्येव साधु । पक्षेऽणि- पार्वतानीति भवति । ८. वृद्धाच्छ इति छे वानरीया सेनेति वक्तव्यम् । ९. दक्षिणापश्चात्पुरसस्त्यक् इति त्यकि पाश्चात्य इति भवितव्यम् । न च दिग्देशवाचिनि पश्चाच्छब्दे सावकाशं त्यकं कालवाचकात् ट्युट्युलौ बाधेते परत्वादिति वाच्यम् । अग्रादिपश्चाड्डिमच् इति डिमचा ट्युट्युलोर्बाधस्य दुरित्वादिति पश्चात्तनमिति सर्वथाऽनुपपन्नम् । पश्चात्तन्वन्ति पश्चात्तना इति तु वैयाकरणस्य व्यायाममात्रम् । १०. काश्यादिभ्यष्ठञिठावित्यत्र आपदादिपूर्वपदाकालान्तात् इति पठ्यते । तेन ठञि आपत्कालिकी, ञिठे च आपत्कालिकेति रूपद्वयं साधु । ११.ग्रामाद्यखञाविति ग्रामात्प्रत्ययविधिः, न तु ग्रामान्तात् । ग्रहण- वता प्रातिपदिकेन तदन्तविधिर्नास्तीति । तेनैकग्रामीण इति प्रयोगश्चिन्त्यः पाणिनीयानाम् ।